सर्वाष् टीकाः ...{Loading}...
०१ यद् अद्य दुग्धम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.40.1)+++यद् अद्य दुग्धं पृथिवीम् असक्त
यद् ओषधीर् व्यसरद् यद् आपः ।
वत्से पयो गवि पयो यद् अस्याम्
अस्मांस् तत् सचतां पयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.40.1)+++यद् अद्य दुग्धं पृथिवीम् असक्त
यद् ओषधीर् व्यसरद् यद् आपः ।
वत्से पयो गवि पयो यद् अस्याम्
अस्मांस् तत् सचतां पयः ॥
सर्वाष् टीकाः ...{Loading}...
०२ परा पतन्त्य् आशवो
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.40.2)+++परा पतन्त्य् आशवो
ऽश्वा अधोधुरं यथा ।
एवा मूत्र प्र भिद्यस्व
वि वस्तेर् आस्यं सृज ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.40.2)+++परा पतन्त्य् आशवो
ऽश्वा अधोधुरं यथा ।
एवा मूत्र प्र भिद्यस्व
वि वस्तेर् आस्यं सृज ॥
सर्वाष् टीकाः ...{Loading}...
०३ विषितं ते वस्तिबिलम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.40.3; PS 19.20.13 is repeated)+++विषितं ते वस्तिबिलम् इत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.40.3; PS 19.20.13 is repeated)+++विषितं ते वस्तिबिलम् इत्य् एका ॥
सर्वाष् टीकाः ...{Loading}...
०४ अस्य पारे समुद्रस्य
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.40.4)+++अस्य पारे समुद्रस्य
शुक्रं ज्योतिर् अमर्त्यम् ।
तन् नः पात्व् अंहसस्
तन् नः पातु विश्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.40.4)+++अस्य पारे समुद्रस्य
शुक्रं ज्योतिर् अमर्त्यम् ।
तन् नः पात्व् अंहसस्
तन् नः पातु विश्वतः ॥
सर्वाष् टीकाः ...{Loading}...
०५ आ नो मेधा
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.40.5)+++आ नो मेधा सुमतिर् विश्वरूपा
हिरण्यवर्णा जगती जगम्यात् ।
सा नो अग्ने मेधा
जुषताम् इह प्रचेताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.40.5)+++आ नो मेधा सुमतिर् विश्वरूपा
हिरण्यवर्णा जगती जगम्यात् ।
सा नो अग्ने मेधा
जुषताम् इह प्रचेताः ॥
सर्वाष् टीकाः ...{Loading}...
०६ निष् क्रामत्व् इषिर्यो
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.40.6)+++निष् क्रामत्व् इषिर्यो अत्र प्रविष्टो
वयाष्ठश् च सयुजा याव् इह स्तः ।
सप्त ऋषीणां स्यूमरश्मिः पथैतु
स्वान् मृगान् पुनर् अप्य् एतु कृष्णः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.40.6)+++निष् क्रामत्व् इषिर्यो अत्र प्रविष्टो
वयाष्ठश् च सयुजा याव् इह स्तः ।
सप्त ऋषीणां स्यूमरश्मिः पथैतु
स्वान् मृगान् पुनर् अप्य् एतु कृष्णः ॥
सर्वाष् टीकाः ...{Loading}...
०७ सप्त ऋषीन् गच्छ
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.40.7)+++सप्त ऋषीन् गच्छ स्यूमरश्मये
मृगान् कृष्णः सचतां वाजो अश्वम् ।
ईडो अस्मान् सुप्रजसः सुवीरान्
सह यज्ञेन पयसा सचातै ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.40.7)+++सप्त ऋषीन् गच्छ स्यूमरश्मये
मृगान् कृष्णः सचतां वाजो अश्वम् ।
ईडो अस्मान् सुप्रजसः सुवीरान्
सह यज्ञेन पयसा सचातै ॥
सर्वाष् टीकाः ...{Loading}...
०८ नमो अस्त्व् ऋषये
विश्वास-प्रस्तुतिः ...{Loading}...
+++(not found in PSK; PSK 20.4.8 is = PS 18.65.1 ∼ ŚS 18.2.17)+++नमो अस्त्व् ऋषये स्यूमरश्मये
नमः कृष्णायोत यो वाजो अस्य ।
नमो देवायार्वतेषु जिष्णवे
ऽयं नो वाजी प्र तिरात्य् आयुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(not found in PSK; PSK 20.4.8 is = PS 18.65.1 ∼ ŚS 18.2.17)+++नमो अस्त्व् ऋषये स्यूमरश्मये
नमः कृष्णायोत यो वाजो अस्य ।
नमो देवायार्वतेषु जिष्णवे
ऽयं नो वाजी प्र तिरात्य् आयुः ॥
सर्वाष् टीकाः ...{Loading}...
०९ अति यन्त्य् अहान्य्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(not found in PSK)+++अति यन्त्य् अहान्य् अति रात्रीर् अत्य् उषसः ।
आपो अन्तर्धावरीस् ताभिर् अन्तर् दधे त्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(not found in PSK)+++अति यन्त्य् अहान्य् अति रात्रीर् अत्य् उषसः ।
आपो अन्तर्धावरीस् ताभिर् अन्तर् दधे त्वा ॥
सर्वाष् टीकाः ...{Loading}...
१० यथा नैदाघ्ये मासि
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.40.9)+++यथा नैदाघ्ये मासि
बह्वीः शुष्यन्त्य् ओषधीः ।
एवा प्र शुष्य माम् अनु
यच् च पश्यामि यच् च न ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.40.9)+++यथा नैदाघ्ये मासि
बह्वीः शुष्यन्त्य् ओषधीः ।
एवा प्र शुष्य माम् अनु
यच् च पश्यामि यच् च न ॥
सर्वाष् टीकाः ...{Loading}...
११ पाटा बिभर्त्य् अङ्कुशम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.40.10)+++पाटा बिभर्त्य् अङ्कुशं
हिरण्यवन्तम् अङ्किनम् ।
तेनाहम् अन्येषां स्त्रिय +++(Bhatt. striya (⟨ śriyaḥ))+++
आ लुम्पामि ममेद् असन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.40.10)+++पाटा बिभर्त्य् अङ्कुशं
हिरण्यवन्तम् अङ्किनम् ।
तेनाहम् अन्येषां स्त्रिय +++(Bhatt. striya (⟨ śriyaḥ))+++
आ लुम्पामि ममेद् असन् ॥