०३८

सर्वाष् टीकाः ...{Loading}...

०१ यद्य् अस्य् अप्रियजा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.37.1)यद्य् अस्य् अप्रियजा
यदि वान्यत आभृतः ।
विसल्पकस्य भेषजीर्
देवीर् आप इमा मम ॥

०२ यवस्य पूतिकस्य दृशाम्बस्योत

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.37.2)यवस्य पूतिकस्य
दृशाम्बस्योत गर्मुतः ।
तेषां सम् अग्रभं शुष्मम्
आशूनां धावताम् इव ॥

०३ यस् तनुः प्रतुर्वणी

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.37.3)यस् तनुः प्रतुर्वणी
वध इव प्रसर्पति ।
मयूरः किल ते विषं
कृकवाकुश् च जक्षतु ॥

०४ उदीचीनः प्र तनोति

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.37.4)उदीचीनः प्र तनोति
नितत्निर् भूम्याम् अधि ।
ओज्मानं पश्य वीरुधो
मिथुना सम् अवीवनत् ॥

०५ नि त्वातनं नितत्निना

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.37.5)नि त्वातनं नितत्निना
परि त्वागां सहीयसा ।
श्येनाद् अभिद्रवीयसा
सुपर्णान् निकरीयसा ॥

०६ यद् अत्रापि मधोर्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.37.6)यद् अत्रापि मधोर् अहं
निरष्ठविषम् अस्मृतम् ।
अग्निश् च तत् सविता च
पुनर् मे जठरे धत्ताम् ॥

०७ अग्ने रुद्रस्य जायासि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.37.78a)अग्ने रुद्रस्य जायासि
दुहितासि प्रजापतेः ।
उच्चैःश्लोके दानपत्नि हविःश्रव
उप त्वा ह्वय उप मा ह्वयस्व ।
नरिष्टा नाम वा असि ॥

०८ यथासौ हरिणो वृषा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.37.8bcd9a)यथासौ हरिणो वृषा
कूलाद् अधि प्रस्कन्दति ।
एवा नि ष्कन्द पित्र्याद्
भगं जयन्ती धनं जयन्ती ॥

०९ ऋजिश्वा मह्यम् अब्रवीद्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.37.9bcd)ऋजिश्वा मह्यम् अब्रवीद्
गन्धर्वस्यानुशासनम् ।
एतत् ते पतिवेदनम् ॥

१० पाटा भिनत्तु कुम्भम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.37.10)पाटा भिनत्तु कुम्भं
पाटा कुम्भीं गदोहनीम् ।
पाटा सर्वस्य पात्रस्य
वधूं कृणोतु विश्वतः ॥