०३७

सर्वाष् टीकाः ...{Loading}...

०१ विश्वं विव्यज्मि पृथिवीव

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.36.1)विश्वं विव्यज्मि पृथिवीव पुष्टम्
आयदायत् प्रति गृह्णाम्य् अन्नम् ।
वैश्वानरस्य महतो महिम्ना
स्योनम् अस्मभ्यं मधुमत् कृणोतु ॥

०२ त्रिशृङ्गम् असि दुरभिधर्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.36.2abc)त्रिशृङ्गम् असि दुरभिधर्षम्
इन्द्राय ध्रियसे ।
पूषा ते प्राशिता ॥

०३ पाहि नो अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.36.2defg)पाहि नो अग्ने तन्वं
पाहि गाः पाहि यत् तनूकृतम् ।
अहुतादाव् अमर्त्यौ
ताव् अस्मान् पातो अंहसः ॥

०४ यौ देवानाम् अहुतादाव्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.36.3)यौ देवानाम् अहुतादाव् अमर्त्यौ
स्वर्भानुश् च स्वर्ज्योतिश् च ।
तयोस् त्वास्येन प्राश्नाम्य्
अग्नेष् ट्वा वैश्वानरस्य त्वास्येन प्राश्नामि ॥

०५ दक्षश् च त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.36.45ab)दक्षश् च त्वा मानसः प्राश्नीतां
स्वर्भानुश् च मारुतः ।
मा पृणन् पूर्त्या वि राधि
मो वयं प्रजया धनेन ॥

०६ अनाधृष्यस्य ते पितो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.36.5cd6ab)अनाधृष्यस्य ते पितो
अनाधृष्यशवसः ।
सर्ववीराः सर्वात्मानो
भक्षं क्रियास्म ॥

०७ कामो मे राज्ञि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.36.6cd7)कामो मे राज्ञि प्र विवेश
त्वां तम् अहं निर् ह्वये पुनः ।
गृहेषु गोषु मे मनो
अक्ष्योर् अस्तु मे भगो
जिह्वायाम् अस्तु मे रसो
बाह्वोर् अस्तु मे बलम्
ऊर्वोर् अस्तु मे जवः ॥

०८ दिवो ऽसि निर्मथितम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.36.8)दिवो ऽसि निर्मथितं
पृथिव्या अध्य् उद्भृतम् ।
समुद्राद् उच्यसे जातम्
अक्ष्यामयभेषजम् अस्य् आथर्वणम् ॥

०९ पूषा परस्ताद् आ

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.36.9)पूषा परस्ताद् आ वर्तयतु
चतस्रो भूम्या दिशः ।
सगलिक पुषलिक
पुनर् नो नष्टम् आयति
जीवेन भुनजामहै ॥

१० यद् आभरच् छृतद्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.36.10)यद् आभरच् छृतद् अग्निस्
तेजने नष्टवेदनम् ।
खर्गलेव पुनर् दत्तं
पुनर् अस्मा अश्विना नष्टम् आजतम् ॥