०३६

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्राणी नारी सुभगा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.35.1)इन्द्राणी नारी सुभगा सुपत्न्य्
उद् अंशेन पतिविद्ये बिभेद ।
त्रिंशद् यस्या जघनं योजनान्य्
उपस्थ इन्द्रं स्थविरं पिपर्तु ॥

०२ सेनासि पृथिवी धनञ्जय्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.35.2)सेनासि पृथिवी धनंजय्- (dhanaṃjayā)
-आदितिर् विश्वरूपा सूर्यत्वक् ।
इन्द्राणी प्राषाट् संजयन्ती
तस्यै त एना हविषा विधेम ॥

०३ अजिरोत्तिष्ठन्त्य् उत्थिताग्रे त्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.35.3)अजिरोत्तिष्ठन्त्य् उत्थिताग्रे
त्वरी प्राषाट् तूर्तम् उपचरन्तीम् ।
प्राषाट् कस् त्वरिषा त्वाग्रे
त्वरिकस् त्वयिषमेस त्वा भद्रे ॥

०४ पर्यावर्ते दुष्वप्न्यात् पापात्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.35.4)पर्यावर्ते दुष्वप्न्यात्
पापात् स्वप्नाद् अभूत्याः ।
ब्रह्माहम् अन्तरं कृण्वे
परा स्वप्नमुखाः शुचः ॥

०५ यत् स्वप्ने अन्नम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.35.5)यत् स्वप्ने अन्नम् अश्नामि
न प्रातर् अधिगम्यते ।
सर्वं तद् अस्तु नः शिवं
नहि तद् दृश्यते दिवा ॥