०३५

सर्वाष् टीकाः ...{Loading}...

०१ सं वर्चसेत्य् एका

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.34.1; PS 19.8.3 is repeated)+++सं वर्चसेत्य् एका ॥

०२ संस्रावभागास् तविषा बृहन्तः

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.34.2)+++संस्रावभागास् तविषा बृहन्तः
प्रस्तरेष्ठा बर्हिषदश् च देवाः ।
इमं यज्ञम् अभि विश्वे गृणन्तः
स्वाहा देवा अमृता मादयन्ताम् ॥

०३ यान् आवह उशतो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.34.3)+++यान् आवह उशतो देव देवांस्
तान् प्रेरय पुनर् अग्ने स्वे सधस्थे ।
जक्षिवांसः पपिवांसो मधून्य्
अस्मै धत्त वसवो वसूनि ॥

०४ अयं नो यज्ञो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.34.4)+++अयं नो यज्ञो अप्य् एतु देवान्
उत्तरां वेदिम् अप्य् एतु वेदिः ।
वि मुञ्चाम्य् ऋत्विजो दक्षिणाभिर्
देवा यक्षीष्ट पुनर् उत्तरावत् ॥

०५ यज्ञ यज्ञं गच्छ

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.34.5)+++यज्ञ यज्ञं गच्छ
यज्ञपतिं गच्छ ।
स्वां योनिं गच्छ स्वाहा ॥

०६ एष ते यज्ञो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.34.6)+++एष ते यज्ञो यजमान सहसूक्तनमोवाकः ।
सुवीरः स्वाहा ॥

०७ मनसस्पत इमं देव

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.34.7)+++मनसस्पत इमं देव यज्ञम् ।
स्वाहा वाचि स्वाहा वाते धाः स्वाहा ॥

०८ स्वाहा हुतेभ्यो वषड्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.34.8)+++स्वाहा हुतेभ्यो
वषड् ढुतेभ्यः ।
देवा गातुविदो गातुं वित्त्वा गातुम् इत स्वाहा ॥

०९ सं बर्हिर् अक्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.34.9)+++सं बर्हिर् अक्तं हविषा घृतेन
सम् इन्द्रेण वसुभिः सं मरुद्भिः ।
सं देवेभिर् विश्वदेवेभिर् अक्तम्
इन्द्रं गच्छतु यत् स्वाहा ॥

१० आशासाना सौमनसं प्रजाम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.34.10)+++आशासाना सौमनसं
प्रजां चक्षुर् अथो बलम् ।
इन्द्राण्या अनुव्रतं
सं नह्ये अमृताय कम् ॥