०३३

सर्वाष् टीकाः ...{Loading}...

०१ यत् ते देवा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.32.1)यत् ते देवा अकृण्वन् भागधेयम्
अमावास्ये संवसन्तो महित्वा ।
सेमं यज्ञं पिपृहि विश्ववारे
रयिं नो धेहि सुभगे सुवीरम् ॥

०२ घृतं ते अग्ने

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.32.2)घृतं ते अग्ने दिव्ये सधस्थे
घृतेन त्वा मनुर् अद्या सम् ईधे ।
घृतं ते देवा आप्या वहन्ति
घृतं तुभ्यं दुह्रते गावो अग्रे ॥

०३ मय्य् अग्रे अग्निम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.32.3)मय्य् अग्रे अग्निं गृह्णामि
सह क्षत्रेण वर्चसा बलेन ।
मयि प्रजां मय्य् आयुर् दधामि
स्वाहा मय्य् अग्निः ॥

०४ अप्सु ते राजन्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.32.4)अप्सु ते राजन् वरुण
गृहो मितो हिरण्ययः ।
ततो धृतव्रतो राजा
सर्वा धामानि नो मुचेः ॥

०५ धाम्नोधाम्नो राजन्न् इतो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.32.5ab)धाम्नोधाम्नो राजन्न्
इतो वरुण नो मुचेः ॥

०६ यद् आपो अघ्न्या

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.32.5cde)यद् आपो अघ्न्या इति
वरुणेति यद् ऊचिम ।
ततो वरुण नो मुचेः ॥

०७ यो रुद्रो अग्नौ

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.32.6)यो रुद्रो अग्नौ यो अप्स्व् अन्तर्
य ओषधीर् वीरुध आविवेश ।
य इमा विश्वा भुवनानि चाक्ल्̥पे
तस्मै रुद्राय नमो अस्त्व् अद्य ॥

०८ अपेह्य् अरिर् अस्य्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.32.7)अपेह्य् अरिर् अस्य् अरिर् वा असि ।
विषे विषम् अपृक्था
अहिम् एवाभ्य् अपेहि तं जहि ॥

०९ पृतनाजितं सहमानम् अग्निम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.32.8)पृतनाजितं सहमानम् अग्निम्
उग्रं हुवेम परमात् सधस्थात् ।
स नः पर्षद् अति दुर्गाणि विश्वहा
क्षासद् देवो ऽति दुरितान्य् अग्निः ॥

१० यद्य् अन्तरिक्षे यदि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.32.9)यद्य् अन्तरिक्षे यदि वात आस
यदि वृक्षेषु यदि वोलपेषु
यद् अश्रवन् पशव उद्यमानं
तद् ब्राह्मणं पुनर् अस्मान् उपैतु ॥