०३१

सर्वाष् टीकाः ...{Loading}...

०१ दिवि तारा उदभि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.30.1)दिवि तारा उदभि श्र्यन्
सप्त सूर्यस्य रश्मयः ।
धाराः समुद्रिया अपस्
तास् ते शल्यम् अचुच्यवुः ॥

०२ ईडे अग्निं स्वावसुम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.30.2)ईडे अग्निं स्वावसुं नमोभिर्
इह प्रसक्तो वि चयत् कृतं नः ।
रथैर् इव प्र भरे वाजयद्भिः
प्रदक्षिणं मरुतां स्तोमम् ऋध्याम् ॥

०३ सप्त स्रवन्ति शिशवे

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.30.3)सप्त स्रवन्ति शिशवे मरुत्वते
पिता पुत्रेभ्यो अप्य् अवीवतद् व् ऋता ।
उभे पिपृत उभे अस्य राजत
उभे यतेते उभे अस्य पुष्यतः ॥

०४ वेदः स्वस्तिर् द्रुहणः

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.30.4)वेदः स्वस्तिर् द्रुहणः स्वस्तिः
पर्शुर् वेदिः परशुर् नः स्वस्तिः ।
हविष्कृतो यज्ञिया यज्ञकामास्
ते देवासो हविर् इदं जुषध्वम् ॥

०५ उप प्रियं पनिप्नतम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.30.5)उप प्रियं पनिप्नतं
युवानम् आहुतीवृधम् ।
अगन्म बिभ्रतो नमः ॥

०६ इमा यास् ते

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.30.6)इमा यास् ते शतं हिराः
सहस्रं धमनीर् उत ।
तासां ते सर्वासां साकम्
अश्मना बिलम् अप्य् अधाम् ॥

०७ इदं खनामि भेषजम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.30.7)इदं खनामि भेषजं
मांपश्यम् अभिरोरुदम् ।
येना निचक्र आसुर्- (āsurī)
-ईन्द्राणी केवलं पतिम् ॥

०८ अक्ष्यौ नौ मधुसङ्काशे

विश्वास-प्रस्तुतिः ...{Loading}...

(a = PSK 20.30.8; bcd- not found in PSK)अक्ष्यौ नौ मधुसंकाशे
अनीकं नौ समञ्जनम् ।
अन्तः कृणुष्व मा हृदि
मन इन् नौ सहासति ॥

०९ त्वाष्ट्रेणाहं वचस् एर्ष्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)त्वाष्ट्रेणाहं वचस्- (vacasā)
-एर्ष्यां व्य् अमीमदम् ।
अथो यो मन्युस् ते पते
तम् उ ते शमयामसि ॥

१० व्रतेन त्वं व्रतपते

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)व्रतेन त्वं व्रतपते समक्तो
ऽहा विश्वा सुमना दीध्यो नः ।
तं त्वा वयं जातवेदः समिद्धं
प्रजावन्त उप सदेम सर्वे ॥