०३०

सर्वाष् टीकाः ...{Loading}...

०१ अपि वृश्च पुराणवद्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.29.12ab)+++अपि वृश्च पुराणवद्
व्रततेर् इव गुष्पितम् ।
ओजो दासस्य जम्भय
यद् एतद् अस्य संभृतं
मधु तद् इन्द्रस्य विभजावहै ॥

०२ म्लापयामि व्रजः शुभ्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.29.2cd3ab)+++म्लापयामि व्रजः शुभ्रं
वरुणस्य व्रतेन ते ।
यथा शेपोअपाय्य् अस
स्त्रीषु चासो अनावयाः ॥

०३ अवस्थस्य क्लदीवतो भङ्गुरस्य

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.29.3cdef)+++अवस्थस्य क्लदीवतो
भङ्गुरस्य नितोदिनः ।
यद् उत्ततम् अव तत् तनु
यद् आततं नि तत् तनु ॥

०४ अमिम्लपं ते तन्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.29.4)+++अमिम्लपं ते तन्वं
क्लीबं त्वा वीरुधाकरम् ।
अन्तःकोश इव कोशेषु
स्त्रीष्व् अप्याकृतश् चर ॥

०५ आ नो मेदम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.29.5)+++आ नो मेदं गृहपतिर्
दधात्व् इन्द्रेण मेदिना ।
आ नो मेदं सरस्वत्य्
आ नो वहन्तु सिन्धवः ॥

०६ मेदं धाता मेदम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.29.6)+++मेदं धाता मेदं पूषा
मेदम् इन्द्रो दधातु मे ।
मेदं मे अश्विनोभ्- +++(aśvinobhā)+++
-आ धत्तां पुष्करस्रजा ॥

०७ ऊरू मेदय मे

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.29.7)+++ऊरू मेदय मे बाहू
अष्ठीवन्ता उरश् च मे ।
वपां पर्य् अस्य उदरे
मेदम् इन्द्रो दधातु मे ॥

०८ चर्मण इवोपनीतस्य सर्वान्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.29.8)+++चर्मण इवोपनीतस्य
सर्वान् केशान् वृहामि ते ।
अयस्पात्रम् इव ते शिरो
यथासत् समरं समम् ॥