०२९

सर्वाष् टीकाः ...{Loading}...

०१ पुनर् मे राजा

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.28.1)+++पुनर् मे राजा वरुणः
पुनर् इन्द्रः पुनर् भगः ।
पुनर् मे विश्वे देवा
आयुर् जीवितवा अदुः ॥

०२ उत् तिष्ठातः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.28.2)+++उत् तिष्ठातः प्र द्रवार्वाङ्
मात्र तिष्ठो ऽभिचाकशत् ।
सपत्न्या वर्च आदाय्- +++(ādāya)+++
-आथास्माभिः सहाससि ॥

०३ उत् तिष्ठत निर्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.28.3)+++उत् तिष्ठत निर् द्रवत
न व इहास्ति न्यञ्चनम् ।
अमुष्य वित्तम् अभि वः सुवामि
तद् अनुवध्वं सुदतीर् अहिनस् तत् ॥

०४ ये अस्माकं सबन्धवो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.28.4)+++ये अस्माकं सबन्धवो
विष्ठिताः पृथिवीम् अनु ।
तेषाम् इन्द्र इव देवानाम्
अहं भूयासम् उत्तमः ॥

०५ ये अग्नयः पार्थिवा

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.28.5)+++ये अग्नयः पार्थिवा
आहिताः पृथिवीम् अनु ।
तेषाम् असि त्वं संगथे
स नो जीवातवे कृधि ॥

०६ चित स्थ परिचित

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.28.6)+++चित स्थ परिचित स्थ्- +++(stha)+++
-आग्नयश् च निहवा नाम ।
ते नो मा नि ह्वध्वं
तेभ्यो वो नमो न वो हवम् एमि ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः
स वो हवम् एतु ॥

०७ इन्द्राग्नी पुनर् आ

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.28.7)+++इन्द्राग्नी पुनर् आ कृतं न एता
स्थिरवीराव् अपरावीतगू ।
अस्माकं सर्वा निहवे सन्त्व् एषां
वयं विद्याम गुह्यं नाम गवाम् ॥

०८ प्रजापते अनुनिक्रन्दय विश्वे

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.28.8)+++प्रजापते अनुनिक्रन्दय
विश्वे देवाः पदवायाः सन्त्व् आसाम् ।
आदित्या अनुसंगत्य शूरा
इन्द्रज्येष्ठाः पुनर् आ वर्तयन्तु ॥

०९ इन्द्र प्रणेतर् वर्धय

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.28.9)+++इन्द्र प्रणेतर् वर्धय म्- +++(mā)+++
-आश्विना मां वहतम् आश्वश्वा ।
ऐन्द्राग्नं वर्म प्रतिमुञ्चमानो
यथोभयेभ्यश् चारु समितिम् आ वदानि ॥

१० चारुवाक् चारुवदनश् चारु

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.28.10)+++चारुवाक् चारुवदनश्
चारु सं काश नो नृभिः ।
अद्वेष्यप्रतीकाशो
जिगीवाँ अपराजितः ॥