सर्वाष् टीकाः ...{Loading}...
०१ यद् अप्सु ते
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.27.1)+++यद् अप्सु ते सरस्वति
गोष्व् अश्वेषु यन् मधु ।
तेन नो वाजिनीवति
मुखम् अङ्धि सरस्वति वर्चसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.27.1)+++यद् अप्सु ते सरस्वति
गोष्व् अश्वेषु यन् मधु ।
तेन नो वाजिनीवति
मुखम् अङ्धि सरस्वति वर्चसा ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो अद्य देव
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.27.2)+++यो अद्य देव सूर्य
त्वां च मां चान्तरायति ।
तस्मिन् दुष्वप्न्यं सर्वं
दुरितानि च मृज्महे ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.27.2)+++यो अद्य देव सूर्य
त्वां च मां चान्तरायति ।
तस्मिन् दुष्वप्न्यं सर्वं
दुरितानि च मृज्महे ॥
सर्वाष् टीकाः ...{Loading}...
०३ यो नो +ऽभिच्छायम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.27.3)+++यो नो +ऽभिच्छायं मर्त्येष्व्
अग्निं तिष्ठस्य् अन्तरा ।
तस्य वृश्चामि ते मूलं
न च्छायां करवो ऽपरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.27.3)+++यो नो +ऽभिच्छायं मर्त्येष्व्
अग्निं तिष्ठस्य् अन्तरा ।
तस्य वृश्चामि ते मूलं
न च्छायां करवो ऽपरम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ घ्नन्त्व् एनं देवेषवो
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.27.4)+++घ्नन्त्व् एनं देवेषवो
ब्रह्माणो घ्नन्तु मेन्या ।
यो अस्माकं प्रजापते
अग्निं तिष्ठत्य् अन्तरा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.27.4)+++घ्नन्त्व् एनं देवेषवो
ब्रह्माणो घ्नन्तु मेन्या ।
यो अस्माकं प्रजापते
अग्निं तिष्ठत्य् अन्तरा ॥
सर्वाष् टीकाः ...{Loading}...
०५ प्रजापते यो ऽस्माम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.27.5)+++प्रजापते यो ऽस्माँ आदृश्- +++(ādṛśā)+++
-आग्निं तिष्ठत्य् अन्तरा ।
तं मृत्यवे प्र यच्छामि
स रुद्रस्यास्त्व् आखणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.27.5)+++प्रजापते यो ऽस्माँ आदृश्- +++(ādṛśā)+++
-आग्निं तिष्ठत्य् अन्तरा ।
तं मृत्यवे प्र यच्छामि
स रुद्रस्यास्त्व् आखणः ॥
सर्वाष् टीकाः ...{Loading}...
०६ प्र सुवैनं देववज्रेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.27.6)+++प्र सुवैनं देववज्रेभ्यो
मृत्युर् वि क्रमताम् अधि ।
सिनात्व् एनान् निरृतिर्
मृत्योः पाशैर् बन्धैर् अविमोक्यैः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.27.6)+++प्र सुवैनं देववज्रेभ्यो
मृत्युर् वि क्रमताम् अधि ।
सिनात्व् एनान् निरृतिर्
मृत्योः पाशैर् बन्धैर् अविमोक्यैः ॥
सर्वाष् टीकाः ...{Loading}...
०७ सुमङ्गलेन वचसा केशिन्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.27.7)+++सुमङ्गलेन वचसा
केशिन् ग्रामं न आ वद ।
ब्रह्मणाब्रह्मणा त्व्- +++(tvā)+++
-ओलूकाच्छा वदामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.27.7)+++सुमङ्गलेन वचसा
केशिन् ग्रामं न आ वद ।
ब्रह्मणाब्रह्मणा त्व्- +++(tvā)+++
-ओलूकाच्छा वदामसि ॥
सर्वाष् टीकाः ...{Loading}...
०८ पराङ् एव परा
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.27.8)+++पराङ् एव परा वद
पराचीम् अनु संवतम् ।
यथा यमस्य त्वा गृहे
ऽरसं प्रतिचाकशं
नियस्तं प्रतिचाकशम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.27.8)+++पराङ् एव परा वद
पराचीम् अनु संवतम् ।
यथा यमस्य त्वा गृहे
ऽरसं प्रतिचाकशं
नियस्तं प्रतिचाकशम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ शुनम् उलूक नो
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.27.9)+++शुनम् उलूक नो वद
यं द्विष्मस् तम् इतो नय ।
राज्ञो यमस्य ते गृहे
सिकताभिर् विदेव्यम्
आखुस् ते मूषिकेद् भागः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.27.9)+++शुनम् उलूक नो वद
यं द्विष्मस् तम् इतो नय ।
राज्ञो यमस्य ते गृहे
सिकताभिर् विदेव्यम्
आखुस् ते मूषिकेद् भागः ॥
सर्वाष् टीकाः ...{Loading}...
१० आ वद बहुलम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.27.10)+++आ वद बहुलं गोष्ठं
धीतवत्सम् अनष्टगुम् ।
ध्वाङ्क्षाय द्विपदां वद
शुने चतुष्पदां वद ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.27.10)+++आ वद बहुलं गोष्ठं
धीतवत्सम् अनष्टगुम् ।
ध्वाङ्क्षाय द्विपदां वद
शुने चतुष्पदां वद ॥