०२७

सर्वाष् टीकाः ...{Loading}...

०१ तिर्यङ् ते गर्भो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.26.1)तिर्यङ् ते गर्भो भवतु
हृदयस्थं जरायु ते ।
आद् ओषम् अग्निम् आ रोह्- (roha)
-आद् गच्छ यमसादनम् ॥

०२ वि ते चृतामि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.26.2)वि ते चृतामि तकरिं
वि योनिं वि गवीन्यौ ।
वि मातरं च पुत्रं च
वि गर्भं च जरायु च ॥

०३ अन्वङ् ते गर्भो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.26.3)अन्वङ् ते गर्भो भवत्व्
अनुसोत जरायु ते ।
यथा त्वं पुत्रं विन्दासै
यथा जीवासि भद्रया ॥

०४ प्र पृष्ठे गर्भम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.26.4)प्र पृष्ठे गर्भम् अर्दय
वि योन आस्यं सृज ।
निर् ऐतु दशमास्यो
गर्भो गवीन्योर् अधि ॥

०५ विष्कम्भेण वि ष्कभाय

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.26.5)विष्कम्भेण वि ष्कभाय
तौ विष्वञ्चौ व्याकुरु ।
एष वाम् अग्निर् अन्तरा
स विष्वञ्चौ व्य् अस्यतु ॥

०६ विष्कम्भो वि ष्कभायतु

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.26.6)विष्कम्भो वि ष्कभायतु
मनश् च हृदयं च वाम् ।
विवर्तन वर्तय
शश्वतीभ्यः समाभ्यः ॥

०७ समुद्रं त्वा प्र

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.26.7)समुद्रं त्वा प्र हिणोमि
स्वां योनिम् अपीहि ।
अच्छिद्रस् तन्वा भूयासं
मा परा सेचि मे पयः ॥

०८ यद् अत्रापि रसस्य

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.26.8)यद् अत्रापि रसस्य मे
परापपातास्मृतम् ।
तद् इहोप ह्वयामहे
तन् मा प्यायतां पुनः ॥

०९ कविर् अग्रे प्र

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.26.9)कविर् अग्रे प्र लिलेख
धर्ता केशाꣳ अधारयत् ।
इहैव विश्वतो दधद्
धाता त्वष्टा त्वचि केशाꣳ अचीक्ल्̥पत् ॥

१० सरस्वति व्रतेषु ते

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.26.10)सरस्वति व्रतेषु ते
दिव्येषु देवि धामसु ।
मन्द्रे हिरण्यवर्तने
प्र ण आयूंषि तारिषः ॥