०२५

सर्वाष् टीकाः ...{Loading}...

०१ दूराद् भेषजम् आभृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.24.1)+++दूराद् भेषजम् आभृतं
बहून्य् अति योजना ।
अपश्यम् अस्यन्तं रुद्रं
न दृष्टो दुष्कृतं करत् ॥

०२ भिनद्मि ते परावतो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.24.2)+++भिनद्मि ते परावतो
वत्सस्य शेप्याम् इव ।
वृषेद् असो यथा मयि
कृष्णो विषाणवाँ इव ॥

०३ सर्वा गावः सम्मनसः

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.24.3)+++सर्वा गावः संमनसः
सच्छवयः सनाभयः ।
समानं बिभ्रतीर् नाम
वत्सा उद् रिहतां मिथः ॥

०४ इन्द्रस् त्वाग्रे अवानयत्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.24.4)+++इन्द्रस् त्वाग्रे अवानयत्
सविता त्वोतापरः ।
तृतीयम् अश्विना त्वाघ्न्ये वाञ्छ ॥

०५ आ ते नयतु

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.24.5)+++आ ते नयतु सवित्- +++(savitā)+++
-आ नयतु बृहस्पतिः ।
पतिर् यः प्रतिकाम्यस्
तम् अस्यै धेह्य् ओषधे ॥

०६ इन्द्रं वयम् अनुराधम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.24.6; PS 3.35.2 is repeated)+++इन्द्रं वयम् अनुराधम् इत्य् एका ॥

०७ भग प्रेहि प्रथमो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.24.7)+++भग प्रेहि प्रथमो
ऽनु त्वा वयम् एमसि ।
इन्द्राग्नी ब्रह्मणास्मान्
स्वस्ति नयतां पथा ॥

०८ अदितिः प्रैतु प्रथमा

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.24.8)+++अदितिः प्रैतु प्रथमा
बृहस्पतिः पुरएता ते अस्तु ।
इन्द्रो भयं व्य् अस्यतु
शूद्राच् च न आर्याच् च ॥

०९ इमे ये अनसि

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.24.9)+++इमे ये अनसि युक्ता
उष्टारा उत पील्वा ।
तेषां सम् अग्रभं पदः
सम् ईर्मान् सम् उ सक्थ्यः ॥

१० वि मध्यमा अप्रोषत

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.24.10)+++वि मध्यमा अप्रोषत
गर्दभा क्षिपिता इव ।
अथासुरस्य मायया
मयीदं स्थापयामसि ॥