सर्वाष् टीकाः ...{Loading}...
०१ मां वदन्तम् अनु
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.21.1)मां वदन्तम् अनु सर्वे वदन्तु
मां प्राणन्तम् अनु प्राणन्तु सर्वे ।
मां विशन्तम् अनु सर्वे विशन्तु
मयि देवा एकवृतो भवन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.21.1)मां वदन्तम् अनु सर्वे वदन्तु
मां प्राणन्तम् अनु प्राणन्तु सर्वे ।
मां विशन्तम् अनु सर्वे विशन्तु
मयि देवा एकवृतो भवन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०२ सूर्यो मा चक्षुषः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.21.2)सूर्यो मा चक्षुषः पातु
बृहस्पतिर् वाचः सोमो राजा सभायाः ।
इन्द्रो वो दृशे भवामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.21.2)सूर्यो मा चक्षुषः पातु
बृहस्पतिर् वाचः सोमो राजा सभायाः ।
इन्द्रो वो दृशे भवामि ॥
सर्वाष् टीकाः ...{Loading}...
०३ वेद वै ते
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.21.3)वेद वै ते सभे नाम
सुभद्रासि सरस्वति ।
अथो ये ते सभासदस्
ते मे सन्तु सुवाचसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.21.3)वेद वै ते सभे नाम
सुभद्रासि सरस्वति ।
अथो ये ते सभासदस्
ते मे सन्तु सुवाचसः ॥
सर्वाष् टीकाः ...{Loading}...
०४ इमा या ब्रह्मणस्पते
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.21.4)इमा या ब्रह्मणस्पते
विषूचीर् वाच ईरते ।
सध्रीचीर् इन्द्र ताः कृत्वा
मह्यं शिवतमाः कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.21.4)इमा या ब्रह्मणस्पते
विषूचीर् वाच ईरते ।
सध्रीचीर् इन्द्र ताः कृत्वा
मह्यं शिवतमाः कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०५ अहम् एषां हस्तरसम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.21.5)अहम् एषां हस्तरसम्
अहं विज्ञानम् आ ददे ।
सर्वस्या अस्याः संसदो
ऽहं भूयासम् उत्तम
इन्द्रो यो गायताम् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.21.5)अहम् एषां हस्तरसम्
अहं विज्ञानम् आ ददे ।
सर्वस्या अस्याः संसदो
ऽहं भूयासम् उत्तम
इन्द्रो यो गायताम् इव ॥
सर्वाष् टीकाः ...{Loading}...
०६ उत्तमं मोत्तमे कृध्य्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.21.6)उत्तमं मोत्तमे कृध्य्
उत्तमा हि बभूविथ ।
यां त्वा भुरण्युर् अन्वैच्छद्
गन्धर्वः शरदः शतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.21.6)उत्तमं मोत्तमे कृध्य्
उत्तमा हि बभूविथ ।
यां त्वा भुरण्युर् अन्वैच्छद्
गन्धर्वः शरदः शतम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ अभिभूर् अहम् आगमम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.21.7)अभिभूर् अहम् आगमम्
अहं भूयासम् उत्तमः ।
इदं प्रतिप्रवादिनं
द्विषन्तम् अव धून्वे ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.21.7)अभिभूर् अहम् आगमम्
अहं भूयासम् उत्तमः ।
इदं प्रतिप्रवादिनं
द्विषन्तम् अव धून्वे ॥
सर्वाष् टीकाः ...{Loading}...
०८ उरुष् टे वस्तिर्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.21.8)उरुष् टे वस्तिर् भवतु
समुद्रस्य बिलं यथा ।
परोदकम् इव सिच्यतां
मूत्रं ते तन्वस् परि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.21.8)उरुष् टे वस्तिर् भवतु
समुद्रस्य बिलं यथा ।
परोदकम् इव सिच्यतां
मूत्रं ते तन्वस् परि ॥
सर्वाष् टीकाः ...{Loading}...
०९ यथा वातो यथोदकम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.21.9)यथा वातो यथोदकं
यथा समुद्र एजति ।
एवा ते गर्भ एजतु
निरैतु दशमास्यो
बहिर् जरायुणा सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.21.9)यथा वातो यथोदकं
यथा समुद्र एजति ।
एवा ते गर्भ एजतु
निरैतु दशमास्यो
बहिर् जरायुणा सह ॥
सर्वाष् टीकाः ...{Loading}...
१० इदम् उ श्रेयो
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.21.10)इदम् उ श्रेयो ऽवसानम् आगां
शिवे मे द्यावापृथिवी अभूताम् ।
असपत्नाः प्रदिशो मे भवन्तु
न वै त्वा द्विष्मो अभयं नो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.21.10)इदम् उ श्रेयो ऽवसानम् आगां
शिवे मे द्यावापृथिवी अभूताम् ।
असपत्नाः प्रदिशो मे भवन्तु
न वै त्वा द्विष्मो अभयं नो अस्तु ॥