सर्वाष् टीकाः ...{Loading}...
०१ दिवस् पृथिव्याः पर्य्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.20.1)+++दिवस् पृथिव्याः पर्य् अन्तरिक्षाद्
वातात् पशुभ्यो अध्य् ओषधीभ्यः ।
यतो लक्ष्मीर् वृजिना संबभूव
सा ब्रह्मणा प्रच्युता दूरम् एतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.20.1)+++दिवस् पृथिव्याः पर्य् अन्तरिक्षाद्
वातात् पशुभ्यो अध्य् ओषधीभ्यः ।
यतो लक्ष्मीर् वृजिना संबभूव
सा ब्रह्मणा प्रच्युता दूरम् एतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ वाल्कुत्सस्य च गन्धेन
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.20.2)+++वाल्कुत्सस्य च गन्धेन
हिरण्यवर्चसेन च ।
आत् पुष्करिण्या यो गन्धो
भगो मा तेन जिन्वतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.20.2)+++वाल्कुत्सस्य च गन्धेन
हिरण्यवर्चसेन च ।
आत् पुष्करिण्या यो गन्धो
भगो मा तेन जिन्वतु ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् इन्द्रो अग्रे
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.20.3)+++यद् इन्द्रो अग्रे असुराञ् जघान
ततो लक्ष्मीर् न्य् अदधुर् मर्त्येषु ।
तासां पापिष्ठा निर् अतः सुवामः
शिवा अस्यै जातवेदो नि यच्छ ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.20.3)+++यद् इन्द्रो अग्रे असुराञ् जघान
ततो लक्ष्मीर् न्य् अदधुर् मर्त्येषु ।
तासां पापिष्ठा निर् अतः सुवामः
शिवा अस्यै जातवेदो नि यच्छ ॥
सर्वाष् टीकाः ...{Loading}...
०४ या त्वा लक्ष्मीर्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.20.4)+++या त्वा लक्ष्मीर् देवृघ्नी या पतिघ्नी
गृहेभ्यस् त्वा नुदते या व्याडा ।
अतस् त्वम् एनसो मुच्यमान्- +++(mucyamānā)+++
-ओत् तरेमाः स्रोत्याः सप्त साकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.20.4)+++या त्वा लक्ष्मीर् देवृघ्नी या पतिघ्नी
गृहेभ्यस् त्वा नुदते या व्याडा ।
अतस् त्वम् एनसो मुच्यमान्- +++(mucyamānā)+++
-ओत् तरेमाः स्रोत्याः सप्त साकम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ निपिंशन्तीं नितुदन्तीं सम्पिबन्तीम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.20.5)+++निपिंशन्तीं नितुदन्तीं
संपिबन्तीं न्यक्वरीम् ।
प्रभङ्गां भ्रूणघ्नीं लक्ष्मीं
ब्रह्मणा ता अनीनशम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.20.5)+++निपिंशन्तीं नितुदन्तीं
संपिबन्तीं न्यक्वरीम् ।
प्रभङ्गां भ्रूणघ्नीं लक्ष्मीं
ब्रह्मणा ता अनीनशम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ उदोजिष्ठां सहस्यां जयन्तीम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.20.6)+++उदोजिष्ठां सहस्यां
जयन्तीम् अपराजिताम् ।
लक्ष्मीर् याः पुण्याः कल्याणीस्
ता अस्यै सवितः सुव ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.20.6)+++उदोजिष्ठां सहस्यां
जयन्तीम् अपराजिताम् ।
लक्ष्मीर् याः पुण्याः कल्याणीस्
ता अस्यै सवितः सुव ॥
सर्वाष् टीकाः ...{Loading}...
०७ लक्ष्म्यः सम् अलप्सत
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.20.7)+++लक्ष्म्यः सम् अलप्सत
सम् अलप्सत लक्ष्म्यः ।
अजैषुर् भद्रा लक्ष्म्यः
परा पापीर् अजेषत ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.20.7)+++लक्ष्म्यः सम् अलप्सत
सम् अलप्सत लक्ष्म्यः ।
अजैषुर् भद्रा लक्ष्म्यः
परा पापीर् अजेषत ॥
सर्वाष् टीकाः ...{Loading}...
०८ लक्ष्मीणां लक्ष्मीतमे लक्ष्मीणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.20.8)+++लक्ष्मीणां लक्ष्मीतमे
लक्ष्मीणाम् अधिपा असि ।
तां त्वाहं शुद्धो गोप्स्यामि
देवजा हि बभूविथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.20.8)+++लक्ष्मीणां लक्ष्मीतमे
लक्ष्मीणाम् अधिपा असि ।
तां त्वाहं शुद्धो गोप्स्यामि
देवजा हि बभूविथ ॥
सर्वाष् टीकाः ...{Loading}...
०९ सभा च मा
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.20.9)+++सभा च मा समितिश् चावतां
प्रजापतेर् दुहितरौ सचेतसौ ।
येन संगच्छा उप मा स तिष्ठाद्
अन्तर् वदानि हृदये जनानाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.20.9)+++सभा च मा समितिश् चावतां
प्रजापतेर् दुहितरौ सचेतसौ ।
येन संगच्छा उप मा स तिष्ठाद्
अन्तर् वदानि हृदये जनानाम् ॥
सर्वाष् टीकाः ...{Loading}...
१० सभा सेना समितिस्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.20.10)+++सभा सेना समितिस् त्वाम् अवन्तु
प्रजापतेर् दुहितरः प्रचेतसः ।
येन वदान्य् उप मा स शिक्षाद्
अन्तर् वदानि हृदये जनानाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.20.10)+++सभा सेना समितिस् त्वाम् अवन्तु
प्रजापतेर् दुहितरः प्रचेतसः ।
येन वदान्य् उप मा स शिक्षाद्
अन्तर् वदानि हृदये जनानाम् ॥