सर्वाष् टीकाः ...{Loading}...
०१ आसन्मन्त्र्यां वचस्यां सम्पिबन्तीम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.19.1)आसन्मन्त्र्यां वचस्यां
संपिबन्तीं न्यक्वरीम् ।
उत्तरां जनंगमां
प्र ता धमामि लक्ष्म्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.19.1)आसन्मन्त्र्यां वचस्यां
संपिबन्तीं न्यक्वरीम् ।
उत्तरां जनंगमां
प्र ता धमामि लक्ष्म्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ या ते घोरा
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.19.2)या ते घोरा तन्वम् आविवेश
या ते लक्ष्मीः सर्वा समक्ता ।
अग्निष् टे तास्व् अदत्त सौभगाय्- (saubhagāya)
-आपः शुन्धन्तु बृहते रणाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.19.2)या ते घोरा तन्वम् आविवेश
या ते लक्ष्मीः सर्वा समक्ता ।
अग्निष् टे तास्व् अदत्त सौभगाय्- (saubhagāya)
-आपः शुन्धन्तु बृहते रणाय ॥
सर्वाष् टीकाः ...{Loading}...
०३ अदेवृघ्नीं वरुण् आपतिघ्नीम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.19.3)अदेवृघ्नीं वरुण्- (varuṇa)
-आपतिघ्नीं बृहस्पते ।
इन्द्रापुत्रघ्नीं लक्ष्म्यम्
अस्यै ताः सवितः सुव ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.19.3)अदेवृघ्नीं वरुण्- (varuṇa)
-आपतिघ्नीं बृहस्पते ।
इन्द्रापुत्रघ्नीं लक्ष्म्यम्
अस्यै ताः सवितः सुव ॥
सर्वाष् टीकाः ...{Loading}...
०४ या ते लक्ष्मीश्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.19.4)या ते लक्ष्मीश् चक्षुषि योत दत्सु
या हस्तयो स्तनयोर् योपपक्षयोः ।
श्रोण्योर् भंससि या पदोष् टे
सर्वास् ता अति क्राम घोराः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.19.4)या ते लक्ष्मीश् चक्षुषि योत दत्सु
या हस्तयो स्तनयोर् योपपक्षयोः ।
श्रोण्योर् भंससि या पदोष् टे
सर्वास् ता अति क्राम घोराः ॥
सर्वाष् टीकाः ...{Loading}...
०५ ऊरुभ्यां ते अष्ठीवद्भ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.19.5)ऊरुभ्यां ते अष्ठीवद्भ्यां
पार्ष्णिभ्यां प्रपदाभ्याम् ।
लक्ष्मीः श्रोणिभ्याम् अङ्गेभ्यो
याः पापीस् ता अनीनशन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.19.5)ऊरुभ्यां ते अष्ठीवद्भ्यां
पार्ष्णिभ्यां प्रपदाभ्याम् ।
लक्ष्मीः श्रोणिभ्याम् अङ्गेभ्यो
याः पापीस् ता अनीनशन् ॥
सर्वाष् टीकाः ...{Loading}...
०६ अपाश्लीलं पृथिवी हन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.19.6)अपाश्लीलं पृथिवी हन्तु यत् पदोर्
अप हस्तयोर् वरुणो मित्रो अर्यमा ।
अपादित्या अनुमती रराणाः
प्र णः सुवात् सविता सौभगाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.19.6)अपाश्लीलं पृथिवी हन्तु यत् पदोर्
अप हस्तयोर् वरुणो मित्रो अर्यमा ।
अपादित्या अनुमती रराणाः
प्र णः सुवात् सविता सौभगाय ॥
सर्वाष् टीकाः ...{Loading}...
०७ एता एना व्याकरन्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.19.7)एता एना व्याकरन्
खिले गा अदितीर् इव ।
रमन्तां भद्रा लक्ष्म्यो
याः पापीस् ता अनीनशन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.19.7)एता एना व्याकरन्
खिले गा अदितीर् इव ।
रमन्तां भद्रा लक्ष्म्यो
याः पापीस् ता अनीनशन् ॥
सर्वाष् टीकाः ...{Loading}...
०८ साहुषी नाम वा
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.19.8)साहुषी नाम वा असि
सहमाना सहस्वती ।
गृहगुप्तिम् अनुवर्तिं कुलायिनीं
ता इहा वेशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.19.8)साहुषी नाम वा असि
सहमाना सहस्वती ।
गृहगुप्तिम् अनुवर्तिं कुलायिनीं
ता इहा वेशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०९ ?सञ्चारिण्य् उभैर् या
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.19.9)?संचारिण्य् उभैर् या बभूव्- (babhūva)
-आन्या अन्यां जिन्वति भद्रपापीः ।
तां लक्ष्मीं निहवा नयामो
भद्रा सुभद्राम् अपि सौभगाय? ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.19.9)?संचारिण्य् उभैर् या बभूव्- (babhūva)
-आन्या अन्यां जिन्वति भद्रपापीः ।
तां लक्ष्मीं निहवा नयामो
भद्रा सुभद्राम् अपि सौभगाय? ॥
सर्वाष् टीकाः ...{Loading}...
१० एकशतं लक्ष्म्यस् तासाम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.19.10)एकशतं लक्ष्म्यस्
तासां राज्ञी बभूविथ ।
भद्राभिर् भद्रे संभूय
भद्रेणाभि सचस्व नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.19.10)एकशतं लक्ष्म्यस्
तासां राज्ञी बभूविथ ।
भद्राभिर् भद्रे संभूय
भद्रेणाभि सचस्व नः ॥