०१९

सर्वाष् टीकाः ...{Loading}...

०१ यत् त आत्मन्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.18.1)+++यत् त आत्मन् तन्वां घोरम् अस्ति
यद् वा केशेषु प्रतिचक्षणे वा ।
तत् ते विद्वान् अप बाधे अहं
प्र त्वा सुवात् सविता सौभगाय ॥

०२ निर् लक्ष्म्यं ललाम्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.18.2)+++निर् लक्ष्म्यं ललाम्यं
निर् अरातिं सुवामसि ।
यथा नो वस्यसीद् असो
रायस्पोषम् इहा सुव ॥

०३ अग्निम् अच्छ देवयताम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.18.3)+++अग्निम् अच्छ देवयतां मनांसि
चक्षूंषीव सूर्यं सं चरन्ति ।
यदी सुवाते उषसा विरूपे
श्वेतो वाजी जायते अग्रे अह्नाम् ॥

०४ इन्द्रो राजा जगतश्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.18.4)+++इन्द्रो राजा जगतश् चर्षणीनाम्
अधि क्षमि विषुरूपं यद् अस्ति ।
ततो ददाति दाशुषे वसूनि
चोदद् राध उपस्तुतश् चिद् अर्वाक् ॥

०५ शकुनिर् भूत्वा प्र

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.18.5)+++शकुनिर् भूत्वा प्र बभस्ति पिप्पलं
पत्यां निविष्टा यदि वा घ पत्न्याम् ।
भीमा घोरा लक्ष्म्यः सहभव्यास्
ता इतो हविषा निर् यजामः ॥

०६ या ते गृहेषूत

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.18.6)+++या ते गृहेषूत वा धनेषु
प्रजां लक्ष्मीर् यदि वा ते बभस्ति ।
तां बृहस्पतिर् हविषा बाधमानो
निर्हूय प्र दध्माव् अधि दूरम् अस्मत् ॥

०७ रिश्यपदीं रिशद्वतीं गोषेधाम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.18.7)+++रिश्यपदीं रिशद्वतीं
गोषेधां विधमाम् उत ।
विलीढ्यं व्याध्यं
ब्रह्मणा ता अनीनशम् ॥

०८ प्रत्योषन्तीम् उत्सङ्गिनीम् उत

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.18.8)+++प्रत्योषन्तीम् उत्सङ्गिनीम्
उत च्छिद्राम् उतारणीम् ।
सिंहीं ज्येष्ठलक्ष्मीं
व्याघ्रीं नाशयामसि ॥

०९ अनुध्यायिनीं परिचरां विबाधाम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.18.9)+++अनुध्यायिनीं परिचरां
विबाधाम् उत हिंसतीम् ।
रोदस्य पत्नीं रोधनां
प्र ता धमामि लक्ष्म्यः ॥

१० वामस्पृहां पितृषदं येषन्तीम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.18.10)+++वामस्पृहां पितृषदं
येषन्तीं तपनीम् उत ।
असिध्यन्तीं प्रध्वंसिनीम्
अष्ट्रावधां च लक्ष्म्यं
ब्रह्मणा ता अनीनशम् ॥