०१८

सर्वाष् टीकाः ...{Loading}...

०१ अभि प्रागात् सहस्राक्षो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.17.1)अभि प्रागात् सहस्राक्षो
युक्त्वा शपथो रथम् ।
शप्तारम् अन्विच्छन् यातु
वृक इवाविमतो गृहम् ॥

०२ परि णो वृङ्धि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.17.2)परि णो वृङ्धि शपथ
ह्रदम् अग्निर् इव दहन् ।
शप्तारम् अत्र त्वं जहि
दिव्या वृक्षम् इवाशनिः ॥

०३ यो नः शपाद्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.17.3)यो नः शपाद् अशपतः
शपतो यश् च नः शपात् ।
वृक्ष इव विद्युता हत
आ मूलाद् अनु शुष्यतु ॥

०४ शप्तारं यन्तु शपथा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.17.4)शप्तारं यन्तु शपथा
यः सुहार्त् तेन नः सह ।
जिह्वाश्लक्ष्णस्य दुर्हार्दः
पृष्टीर् अपि शृणीमसि ॥

०५ यं द्विष्मो यश्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.17.5)यं द्विष्मो यश् च नो द्वेष्ट्य्
अघायुर् यश् च नः शपात् ।
शुने पेष्ट्रम् इवावक्षामं
तं प्रत्य् अस्यामि मृत्यवे ॥

०६ प्रेतो यन्तु व्याध्यः

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.17.6)प्रेतो यन्तु व्याध्यः
प्रानुध्याः प्रो अशस्तयः ।
अग्नी रक्षस्विनीर् हन्तु
सोमो हन्तु दुरस्यतीः ॥

०७ प्र चतेतः पापि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.17.7)प्र चतेतः पापि लक्ष्मि
नश्येतः प्रामुतः पत ।
अयस्मयेनाङ्केन
यं द्विष्मस् तस्मिन् त्वा सृजामः ॥

०८ या त्वा लक्ष्मीः

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.17.8)या त्वा लक्ष्मीः पतयालूर् अजुष्ट्- (ajuṣṭā)
-आधिचस्कन्द वन्दनेव वृक्षम् ।
अन्यत्रास्मत् सवितस् ताम् इतो धा
हिरण्यहस्तो वसु नो रराणः ॥

०९ निर् अरणीं सविता

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.17.9)निर् अरणीं सविता साविषत् पदोर्
निर् हस्तयोर् वरुणो मित्रो अर्यमा ।
निर् आदित्या अनुमती रराणाः
प्र णः सुवात् सविता सौभगाय ॥

१० एकशतं लक्ष्म्यः साकम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.17.10)एकशतं लक्ष्म्यः
साकं मर्त्यस्य जनुषेह जाताः ।
तासां पापिष्ठा निर् अतः प्र हिण्मः
शिवास्मभ्यं जातवेदो नि यच्छ ॥