सर्वाष् टीकाः ...{Loading}...
०१ यद् अन्नम् अद्मि
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.14.1)+++यद् अन्नम् अद्मि बहुधा विरूपं
हिरण्यम् अश्वम् उत गाम् अजाम् अविम् ।
यद् एव किं च प्रतिजग्रहाहम्
अग्निष् टद् विश्वाद् अगदं कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.14.1)+++यद् अन्नम् अद्मि बहुधा विरूपं
हिरण्यम् अश्वम् उत गाम् अजाम् अविम् ।
यद् एव किं च प्रतिजग्रहाहम्
अग्निष् टद् विश्वाद् अगदं कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् आशसा मे
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.14.2)+++यद् आशसा मे चरतो जनाँ अनु
याचमानस्य वदतो विचुक्षुभे ।
यन् मे तन्वो मनसो विरिष्टं
सरस्वती तद् आ पृणाद् घृतेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.14.2)+++यद् आशसा मे चरतो जनाँ अनु
याचमानस्य वदतो विचुक्षुभे ।
यन् मे तन्वो मनसो विरिष्टं
सरस्वती तद् आ पृणाद् घृतेन ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् आरिम प्रतिगृह्णन्त
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.14.3)+++यद् आरिम प्रतिगृह्णन्त एनः
सिषासन्तो बलिम् अग्ने चरन्तः ।
त्वं नस् तस्माद् एनसो मुमुग्धि
वैश्वानरः प्रति हव्या गृभाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.14.3)+++यद् आरिम प्रतिगृह्णन्त एनः
सिषासन्तो बलिम् अग्ने चरन्तः ।
त्वं नस् तस्माद् एनसो मुमुग्धि
वैश्वानरः प्रति हव्या गृभाय ॥
सर्वाष् टीकाः ...{Loading}...
०४ चक्षुषः पाशान् मनसश्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.14.4)+++चक्षुषः पाशान् मनसश् च पाशाद्
वीक्षायाः पाशाद् उत शक्वरीणाम् ।
तस्मान् मुमुग्धि विश्वावसो त्वं नो
दातॄणां दानं भुनजामहै वयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.14.4)+++चक्षुषः पाशान् मनसश् च पाशाद्
वीक्षायाः पाशाद् उत शक्वरीणाम् ।
तस्मान् मुमुग्धि विश्वावसो त्वं नो
दातॄणां दानं भुनजामहै वयम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अदुर् मे विश्वे
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.14.5)+++अदुर् मे विश्वे देवा
अदात् सवितेदम् ।
अदान् मे ब्रह्मणस्पतिः
प्रियो मित्रो अदाद् इदम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.14.5)+++अदुर् मे विश्वे देवा
अदात् सवितेदम् ।
अदान् मे ब्रह्मणस्पतिः
प्रियो मित्रो अदाद् इदम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ इन्द्रेण मेदिना युज्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.14.6)+++इन्द्रेण मेदिना युज्- +++(yujā)+++
-आप बाधे पृतन्यतः ।
अधरे सन्तु शत्रवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.14.6)+++इन्द्रेण मेदिना युज्- +++(yujā)+++
-आप बाधे पृतन्यतः ।
अधरे सन्तु शत्रवः ॥
सर्वाष् टीकाः ...{Loading}...
०७ अग्निर् इन्द्रश् च
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.14.7)+++अग्निर् इन्द्रश् च यद् युवं
हतो वृत्राण्य् अप्रति ।
उग्रा हि वृत्रहन्तमा ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.14.7)+++अग्निर् इन्द्रश् च यद् युवं
हतो वृत्राण्य् अप्रति ।
उग्रा हि वृत्रहन्तमा ॥
सर्वाष् टीकाः ...{Loading}...
०८ अग्निम् इन्द्रं च
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.14.8)+++अग्निम् इन्द्रं च यद् वयं
पुरोधायै हवामहे ।
तौ नो मृडात ईदृशे ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.14.8)+++अग्निम् इन्द्रं च यद् वयं
पुरोधायै हवामहे ।
तौ नो मृडात ईदृशे ॥
सर्वाष् टीकाः ...{Loading}...
०९ याभ्यां स्वर् अजयन्न्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.14.9)+++याभ्यां स्वर् अजयन्न् अग्रे
याव् आतस्थतुर् भुवना जुषाणा ।
प्रचर्षणी वृषणा वज्रबाहू
अग्निम् इन्द्रं वृत्रहणा हुवेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.14.9)+++याभ्यां स्वर् अजयन्न् अग्रे
याव् आतस्थतुर् भुवना जुषाणा ।
प्रचर्षणी वृषणा वज्रबाहू
अग्निम् इन्द्रं वृत्रहणा हुवेम ॥
सर्वाष् टीकाः ...{Loading}...
१० ययोर् ओजसा स्तभिता
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.14.10)+++ययोर् ओजसा स्तभिता रजांसि
यौ वीर्यैर् वीरतमा शचीभिः ।
यौ पत्येते अप्रतीतौ सहोभिर्
विष्णुम् अगन् वरुणं पूर्वहूतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.14.10)+++ययोर् ओजसा स्तभिता रजांसि
यौ वीर्यैर् वीरतमा शचीभिः ।
यौ पत्येते अप्रतीतौ सहोभिर्
विष्णुम् अगन् वरुणं पूर्वहूतिः ॥