०१४

सर्वाष् टीकाः ...{Loading}...

०१ पयस्वतीर् ओषधयः पयस्वन्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.13.1; PS 5.30.1 is repeated)पयस्वतीर् ओषधयः
पयस्वन् मामकं वच इत्य् एका ॥

०२ अयम् अग्निर् वरेण्य

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.13.2)अयम् अग्निर् वरेण्य
आयुष् टे विश्वतो दधत् ।
पुनस् त्वा प्राण आयति
परा यक्ष्मं सुवामि ते ॥

०३ जनाद् विश्वजनीनं विशाम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.13.3)जनाद् विश्वजनीनं
विशाम् उरुक्षितीनाम् ।
दूरात् त्वा मन्य आभृतम्
ईर्ष्याया नाम भेषजम् ॥

०४ दूराद् एतत् सम्

विश्वास-प्रस्तुतिः ...{Loading}...

(ab- not found in PSK, cd = PSK 20.13.4ab)दूराद् एतत् सं भरन्त्- (bharanti)
-ईर्ष्याया नाम भेषजम् ।
तत् संवेगस्य भेषजं
तद् अश्ना संगृभायिकम् ॥

०५ अग्नेर् इव दहतो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.13.4cd5)अग्नेर् इव दहतो
दावस्य दहतो यथा ।
एताम् एतस्येर्ष्यां हृद
उद्नाग्निम् इव वारये ॥

०६ अप मार्ज्म्य् अपनयन्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.13.6)अप मार्ज्म्य् अपनयन्
मन्युं ते हृदयाद् अधि ।
अमुष्मिन्न् ईर्ष्याम् आ दध्मस्
तत्रो एनां नि दध्मसि ॥ (Kubisch tato (sandhi?))

०७ तिरश्चिराजेर् असितात् पृदाकोर्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.13.7)तिरश्चिराजेर् असितात्
पृदाकोर् अधि संभृतम् ।
तत् कङ्कपर्वणो विषम्
इयं वीरुद् अदूदुषत् ॥

०८ इयं वीरुन् मधुजाता

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.13.8)इयं वीरुन् मधुजाता
मधुश्चुन् मधुला मधु
सा विह्रुतस्य भेषज्य्
अथो मशकजम्भनी ॥

०९ यतो दष्टं यतः

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.13.9)यतो दष्टं यतः पीतं
ततस् त्वा निर् णयामसि ।
अभ्र्यस्य तृप्रदंशिनो
मशकस्यारसं विषम् ॥

१० अयं यो विख्यो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.13.10)अयं यो विख्यो विकटो विपर्वा
मुखान्य् एषां वृजिना कृणोषि ।
तानि त्वं देव सवितर्
इषीकाम् इव सं नमः ॥