सर्वाष् टीकाः ...{Loading}...
०१ स्वाहाकृतः शुचिर् देवेषु
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.12.1)स्वाहाकृतः शुचिर् देवेषु घर्मो
यो अश्विनोश् चमसो देवपानः ।
तम् उ विश्वे अमृतासो जुषाणा
गन्धर्वस्य प्रत्य् आस्ना रिहन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.12.1)स्वाहाकृतः शुचिर् देवेषु घर्मो
यो अश्विनोश् चमसो देवपानः ।
तम् उ विश्वे अमृतासो जुषाणा
गन्धर्वस्य प्रत्य् आस्ना रिहन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०२ सुगा वो देवाः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.12.2)सुगा वो देवाः सदना कृणोमि
य आतस्थेदं सवनं जुषाणाः ।
वहमाना भरमाणा अभ्रा
अस्तं घर्मं तम् उदातिष्ठतानु ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.12.2)सुगा वो देवाः सदना कृणोमि
य आतस्थेदं सवनं जुषाणाः ।
वहमाना भरमाणा अभ्रा
अस्तं घर्मं तम् उदातिष्ठतानु ॥
सर्वाष् टीकाः ...{Loading}...
०३ शिवा नः शन्तमा
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.12.3)शिवा नः शंतमा भव
सुमृडीका सरस्वति ।
मा ते युयोम संदृशः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.12.3)शिवा नः शंतमा भव
सुमृडीका सरस्वति ।
मा ते युयोम संदृशः ॥
सर्वाष् टीकाः ...{Loading}...
०४ उपैनं देवो अग्रभीच्
विश्वास-प्रस्तुतिः ...{Loading}...
(ab = PSK 20.12.4ab; cd are not found in PSK, which repeats PS 19.8.6cd instead)उपैनं देवो अग्रभीच्
चमसेन बृहस्पतिः ।
यजमानाय शुन्धत
इन्द्र गीर्भिर् न आ भर ॥
मूलम् ...{Loading}...
मूलम् (GR)
(ab = PSK 20.12.4ab; cd are not found in PSK, which repeats PS 19.8.6cd instead)उपैनं देवो अग्रभीच्
चमसेन बृहस्पतिः ।
यजमानाय शुन्धत
इन्द्र गीर्भिर् न आ भर ॥
सर्वाष् टीकाः ...{Loading}...
०५ सं मा सिञ्चन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.12.5; PS 6.18.1 is repeated)सं मा सिञ्चन्तु मरुत इत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.12.5; PS 6.18.1 is repeated)सं मा सिञ्चन्तु मरुत इत्य् एका ॥
सर्वाष् टीकाः ...{Loading}...
०६ इडैवास्मां अनु वस्ताम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.12.6)इडैवास्माꣳ अनु वस्तां व्रतेन
यस्याः पदे पुनते देवयन्तः ।
घृतपदी शक्वरी सोमपृष्ठ्- (somapṛṣṭhā)
-ओप यज्ञम् अस्थित वैश्वदेवी ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.12.6)इडैवास्माꣳ अनु वस्तां व्रतेन
यस्याः पदे पुनते देवयन्तः ।
घृतपदी शक्वरी सोमपृष्ठ्- (somapṛṣṭhā)
-ओप यज्ञम् अस्थित वैश्वदेवी ॥
सर्वाष् टीकाः ...{Loading}...
०७ द्रप्सश् चस्कन्देत्य् एका
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.12.7; PS 18.78.7 is repeated)द्रप्सश् चस्कन्देत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.12.7; PS 18.78.7 is repeated)द्रप्सश् चस्कन्देत्य् एका ॥
सर्वाष् टीकाः ...{Loading}...
०८ यस् ते द्रप्स
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.12.8)यस् ते द्रप्स स्कन्दति यस् ते अंशुर्
बाहुच्युतो धिषणाया उपस्थात् ।
अध्वर्योर् वा परि यः पवित्रात्
तं ते जुहोमि मनसा वषट्कृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.12.8)यस् ते द्रप्स स्कन्दति यस् ते अंशुर्
बाहुच्युतो धिषणाया उपस्थात् ।
अध्वर्योर् वा परि यः पवित्रात्
तं ते जुहोमि मनसा वषट्कृतम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ द्रप्सः पतितो विश्वयः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.12.9)द्रप्सः पतितो विश्वयः परिश्रुतः ।
अयं देवो बृहस्पतिः
सं तं सिञ्चतु राधसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.12.9)द्रप्सः पतितो विश्वयः परिश्रुतः ।
अयं देवो बृहस्पतिः
सं तं सिञ्चतु राधसे ॥
सर्वाष् टीकाः ...{Loading}...
१० यस् ते द्रप्सः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.12.10)यस् ते द्रप्सः पतितः पृथिव्यां
धानासोमः परिवापः करम्भः ।
अयं देवो बृहस्पतिः
सं तं सिञ्चतु वर्चसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.12.10)यस् ते द्रप्सः पतितः पृथिव्यां
धानासोमः परिवापः करम्भः ।
अयं देवो बृहस्पतिः
सं तं सिञ्चतु वर्चसे ॥