०११

सर्वाष् टीकाः ...{Loading}...

०१ अति धन्वान्य् अत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.1)+++अति धन्वान्य् अत्य् अपस् ततर्द
श्येनो नृचक्षा अवसानदर्शः ।
तरन् विश्वावरा रजांस्- +++(rajāṃsi)+++
-ईन्द्रेण सख्या शिव आ जगाम ॥

०२ आगन् देवः सविता

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.2)+++आगन् देवः सविता सर्वधाया
उरुज्योतिर् अविदामा नमोभिः ।
महीं नावम् अदितेर् आ रुहेम
यत्र सोमः सदम् इत् तत्र भद्रम् ॥

०३ उद् वयम् इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.3; PS 5.6.9 is repeated)+++उद् वयम् इत्य् एका ॥

०४ पतिर् दिवः पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.4)+++पतिर् दिवः पतिर् अग्निः पृथिव्याः
पतिर् विश्वस्य भुवनस्य राजति ।
पतिर् विश्वा ओषधीर् आ विवेश
पत्नीवान् अग्न इह याहि सोमम् ॥

०५ सं क्रामतं मा

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.5)+++सं क्रामतं मा जहीतं शरीरं
प्राणापानौ सयुजेह स्तम् ।
सप्तऋषिभ्यः परि दद्म एतं +++(Bhatt. dadhma)+++
त एनं स्वस्ति जरसे नयन्तु ॥

०६ यत् त आयुर्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.6)+++यत् त आयुर् अतिहितं पराचैर्
अपानः प्राणो य उ ते परेतः ।
अग्निष् टद् आहार् निरृतेर् उपस्थात्
तद् आत्मनि पुनर् आ वेशयामि ॥

०७ मा त्वा प्राणो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.7)+++मा त्वा प्राणो हासीद् यस् त्वे प्रविष्टो
मा त्वापानो ऽवहाय परा गात् ।
संरभ्य जीव शरदः सुवर्चा
अग्निष् टे गोपा अधिपा वसिष्ठः ॥

०८ राकाम् अहं सुहवाम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.8)+++राकाम् अहं सुहवां सुष्टुती हुवे
शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्व् अपः सूच्याच्छिद्यमानया
ददातु वीरं शतदायम् उक्थ्यम् ॥

०९ यास् ते राके

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.9)+++यास् ते राके सुमतयः सुपेशसो
याभिर् ददाति दाशुषे वसूनि ।
ताभिर् नो अद्य सुमना उपागहि
सहस्रपोषं सुभगे रराणा ॥

१० या राका या

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.10)+++या राका या सिनीवाली
या गुङ्गूर् या सरस्वती ।
इन्द्राणीम् अह्व ऊतये
वरुणानीं स्वस्तये ॥

११ या सुबाहुः स्वङ्गुरिः

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.11)+++या सुबाहुः स्वङ्गुरिः
सुषुमा बहुसूवरी ।
तस्यै विश्पत्न्यै हविः
सिनीवाल्यै जुहोतन ॥

१२ सिनीवालि पृथुष्टुके या

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.12)+++सिनीवालि पृथुष्टुके
या देवानाम् असि स्वसा ।
जुषस्व हव्यम् आहुतं
प्रजां देवि दिदिड्ढि नः ॥

१३ या विश्वत इन्द्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.10.13)+++या विश्वत इन्द्रम् असि प्रतीची
सहस्रस्तुताम् अभि यन्तु देवीः ।
विष्णुपत्नि तुभ्यं राता हवींषि
पतिं देवि राधसा चोदयस्व ॥