०१०

सर्वाष् टीकाः ...{Loading}...

०१ यो नो मित्रावरुणाभिदासात्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.9.1)यो नो मित्रावरुणाभिदासात्
सपत्नो वोत्पिपानो बृहस्पते ।
सर्वं तम् अग्ने अधरं पातयास्मद्
यथेन्द्राहम् उत्तमश् चेतयानि ॥

०२ अहम् एषाम् उत्तमश्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.9.2)अहम् एषाम् उत्तमश् चेतयानि
मम वशम् उप तिष्ठन्तु सर्वे ।
आजुह्वानो घृतपृष्ठः सुवर्चा
वसोर् मध्ये दीदिहि जातवेदः ॥

०३ अमुम् अग्ने अधरम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.9.3)अमुम् अग्ने अधरं पातयास्मज्
जासयोत्पिपानं सपत्नम् ।
ये नो धूर्वान् अधरे ते भवन्तु
विश्वा द्वेषांस्य् अभितो नि मृड्ढि ॥

०४ मूर्धानं दिवो अरतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.9.4)मूर्धानं दिवो अरतिं पृथिव्या
विशस् त्वा सर्वा बलिहृत उपासताम् ।
तासाम् उग्रो मध्यमेष्ठेयम् अस्या
स्वे क्षेत्रे सवितेव वि राज ॥

०५ आ प्रत्यञ्चं दाशुषे

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.9.5)आ प्रत्यञ्चं दाशुषे दाश्वांसं
सरस्वन्तं पुष्टिपतिं रयीणाम् ।
रायस्पोषं श्रवस्यं वसानम्
इह हुवेम सदनं रयीणाम् ॥

०६ यस्य व्रते पशवो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.9.6)यस्य व्रते पशवो यन्ति सर्वे
यस्य व्रत उपतिष्ठन्त आपः ।
यस्य व्रते पुष्टिपतिर् निविष्टस्
तं सरस्वन्तम् अवसे हुवेम ॥

०७ ये ते सरस्वन्न्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.9.7)ये ते सरस्वन्न् ऊर्मयो
मधुमन्तो घृतश्चुतः ।
तेभिर् नो ऽविता भुवः ॥

०८ दिव्यं समुद्रं पयसम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.9.8)दिव्यं समुद्रं पयसं बृहन्तम्
अपां गर्भं वृषभम् ओषधीनाम् ।
अभीपतो रय्या तर्पयन्तं
सरस्वन्तं रयिष्ठां सादयेह ॥

०९ इन्द्रस्य कुक्षिर् असि

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.9.9)इन्द्रस्य कुक्षिर् असि सोमधान
आत्मा देवानाम् उत विश्वरूपः ।
इह प्रजा जनय यास् त आसु
या अन्यत्रेह तास् ते स्वधितो गृणन्तु ॥

१० श्येनः सुपर्णो दिव्यो

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.9.10)श्येनः सुपर्णो दिव्यो नृचक्षाः
सहस्रपाच् छतयोनिर् वयोधाः ।
स नो नि यच्छाद् वसु यत् पराभृतम्
अस्माकम् अस्तु पितृषु स्वधावत् ॥