००९

सर्वाष् टीकाः ...{Loading}...

०१ त्विषिर् असि त्विषिवन्तो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.8.1)+++त्विषिर् असि त्विषिवन्तो भूयास्म ।
चक्षुष्मन्तो गोमन्तः
प्रजावन्तो वर्चस्विनः ॥

०२ यद् अह्ना सञ्चिनुथ

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.8.2)+++यद् अह्ना संचिनुथ
क्षीरं भरथोधभिः ।
इदं तद् विश्वरूपा वः
पयो हरामि वीरुधा ॥

०३ यद् अघ्न्या ओषधीभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.8.3)+++यद् अघ्न्या ओषधीभ्यो
ऽद्भ्यः संभरथा मधु ।
इदं तद् विश्वरूपा वः
क्षीरं हराम्य् ओषध्या ॥

०४ यो अभ्यवभृणायसि स्वपन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.8.4)+++यो अभ्यवभृणायसि
स्वपन्तम् इच्छ पूरुषं
शयानम् अकस्वलम् ।
अयस्मयेन वर्मण्- +++(varmaṇā)+++
-आश्ममयेन वर्मणा
पर्य् अस्मान् वरुणो दधत् ॥

०५ ये नो गृहे

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.8.5)+++ये नो गृहे ब्राह्मणा मन्यमाना
घोरां वाचं मिथुयानुब्रुवन्ति ।
एनोहृतो मलहृतो भवन्तु
दुर्योणम् अस्मत् परि ते हरन्तु ॥

०६ अयम् अग्निः सत्पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.8.6)+++अयम् अग्निः सत्पतिर् वृद्धवृष्णियो
रथीव पत्यै न जनयत् पुरोहितः ।
नाभा पृथिव्या निहितो दविद्युतद्
अधस्पदं कृणुतां ये पृतन्यवः ॥

०७ अग्ने शर्ध महते

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.8.7)+++अग्ने शर्ध महते सौभगाय
तव द्युम्नान्य् उत्तमानि सन्तु ।
सं जास्पत्यं सुयमम् आ कृणुष्व
शत्रूयताम् अभि तिष्ठा महांसि ॥

०८ दृष्टो दमूना अतिथिर्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(not found in PSK)+++दृष्टो दमूना अतिथिर् दुरोण
इमं नो यज्ञम् उप याहि विद्वान् ।
विश्वा ह्य् अग्ने अभियुजो विहत्य
शत्रूयताम् आ भरा भोजनानि ॥

०९ अग्ने सपत्नान् प्र

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.8.8)+++अग्ने सपत्नान् प्र णुदस्व जातान्
प्रत्य् अजाताञ् जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमनस्यमानः
शर्म नो यच्छ त्रिवरूथम् उद्भित् ॥

१० प्रान्यान् सपत्नान् सहसा

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.8.9)+++प्रान्यान् सपत्नान् सहसा सहस्व
प्रत्य् अजाताञ् जातवेदः शृणीहि ।
इदं राष्ट्रं पिपृहि सौभगाय्- +++(saubhagāya)+++
-आनु त्वा देवा वसवो मदन्ताम् ॥