सर्वाष् टीकाः ...{Loading}...
०१ अग्नाविष्णू महि धाम
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.7.1)अग्नाविष्णू महि धाम प्रियं वां
पातं घृतस्य गुह्यानि नाम ।
दमेदमे सप्त रत्ना दधान्- (dadhānā)
-ओप वां जिह्वा घृतम् आ चरण्यात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.7.1)अग्नाविष्णू महि धाम प्रियं वां
पातं घृतस्य गुह्यानि नाम ।
दमेदमे सप्त रत्ना दधान्- (dadhānā)
-ओप वां जिह्वा घृतम् आ चरण्यात् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अग्नाविष्णू महि तद्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.7.2)अग्नाविष्णू महि तद् वां महित्वं
वीतं घृतस्य गुह्या जुषाणा ।
दमेदमे सुष्टुत्या वावृधाना
प्रति वां जिह्वा घृतम् उच् चरण्यात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.7.2)अग्नाविष्णू महि तद् वां महित्वं
वीतं घृतस्य गुह्या जुषाणा ।
दमेदमे सुष्टुत्या वावृधाना
प्रति वां जिह्वा घृतम् उच् चरण्यात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ उन् नम्भय पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.7.3)उन् नम्भय पृथिवीं
भिन्धीदं दिव्यं नभः ।
ऊध्नो दिव्यस्य नो धातर्
ईशानो वि ष्या बिलम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.7.3)उन् नम्भय पृथिवीं
भिन्धीदं दिव्यं नभः ।
ऊध्नो दिव्यस्य नो धातर्
ईशानो वि ष्या बिलम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ अपक्रामन् पौरुषेयाद् गृणानो
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.7.4)अपक्रामन् पौरुषेयाद्
गृणानो दैव्यं सहः ।
प्रणीतीर् अभ्यावर्तस्व
देवो देवानां सख्या जुषाणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.7.4)अपक्रामन् पौरुषेयाद्
गृणानो दैव्यं सहः ।
प्रणीतीर् अभ्यावर्तस्व
देवो देवानां सख्या जुषाणः ॥
सर्वाष् टीकाः ...{Loading}...
०५ पितोर् अहं पितुपतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.7.5)पितोर् अहं पितुपतिं तद् ईडे
धाता विधर्ता भुवनेष्व् एषु ।
नेमेन मह्यं मधुमाꣳ इहैधि
नेमेनामुष्मै विषुवान् न्व् एधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.7.5)पितोर् अहं पितुपतिं तद् ईडे
धाता विधर्ता भुवनेष्व् एषु ।
नेमेन मह्यं मधुमाꣳ इहैधि
नेमेनामुष्मै विषुवान् न्व् एधि ॥
सर्वाष् टीकाः ...{Loading}...
०६ अयं पितोः पितुमान्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.7.6; the refrain (= pādas cd) is not written)अयं पितोः पितुमान् आभृतस् पर्- (pari)
-ईदं शृणोतु यद् अहं ब्रवीमि ।
नेमेन मह्यं मधुमाꣳ इहैधि
नेमेनामुष्मै विषुवान् न्व् एधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.7.6; the refrain (= pādas cd) is not written)अयं पितोः पितुमान् आभृतस् पर्- (pari)
-ईदं शृणोतु यद् अहं ब्रवीमि ।
नेमेन मह्यं मधुमाꣳ इहैधि
नेमेनामुष्मै विषुवान् न्व् एधि ॥
सर्वाष् टीकाः ...{Loading}...
०७ अत्रैवैनं निरृत आ
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.7.7)अत्रैवैनं निरृत आ रभस्व्- (rabhasva)
-आत्रैवैनं निरृते प्र क्षिणीह्य्
अत्रैवैनं सर्व वि वृश्च ।
नेमेन मह्यं मधुमाꣳ इहैधि
नेमेनामुष्मै विषुवान् न्व् एधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.7.7)अत्रैवैनं निरृत आ रभस्व्- (rabhasva)
-आत्रैवैनं निरृते प्र क्षिणीह्य्
अत्रैवैनं सर्व वि वृश्च ।
नेमेन मह्यं मधुमाꣳ इहैधि
नेमेनामुष्मै विषुवान् न्व् एधि ॥
सर्वाष् टीकाः ...{Loading}...
०८ यत् त्वा पित
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.7.8)यत् त्वा पित उपब्रुवे तन् म आ शृण्व्
अस्मिन् मे हवे हव्यो यथासः ।
अमुं देवैर् निरृतिः संविदान्- (saṃvidānā)
-आमुं छिनत्ति वरुणस्य पाशात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.7.8)यत् त्वा पित उपब्रुवे तन् म आ शृण्व्
अस्मिन् मे हवे हव्यो यथासः ।
अमुं देवैर् निरृतिः संविदान्- (saṃvidānā)
-आमुं छिनत्ति वरुणस्य पाशात् ॥
सर्वाष् टीकाः ...{Loading}...
०९ यद् अस्मृति चकृमा
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.7.9)यद् अस्मृति चकृमा किं चिद् एन
उपारिम चरणैर् जातवेदः ।
तस्मात् पाहि त्वं नः प्रचेतः
शुभे सखिभ्यो अमृतत्वम् अस्मान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.7.9)यद् अस्मृति चकृमा किं चिद् एन
उपारिम चरणैर् जातवेदः ।
तस्मात् पाहि त्वं नः प्रचेतः
शुभे सखिभ्यो अमृतत्वम् अस्मान् ॥
सर्वाष् टीकाः ...{Loading}...
१० अग्ने ऽध्यक्षो न
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.7.10)अग्ने ऽध्यक्षो न एहि पाहि नो दुरितात् पाहि दुष्वप्न्यात् ।
आसन्याद् अन्याद् यक्ष्मान् नः पाहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.7.10)अग्ने ऽध्यक्षो न एहि पाहि नो दुरितात् पाहि दुष्वप्न्यात् ।
आसन्याद् अन्याद् यक्ष्मान् नः पाहि ॥