००७

सर्वाष् टीकाः ...{Loading}...

०१ यन् नो अग्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.6.1)+++यन् नो अग्निर् असनद् यन् न इन्द्रो
विश्वे यद् देवा मरुतः स्वर्काः ।
तद् अस्मभ्यं सविता सत्यधर्मा
सरस्वत्य् अनुमतिर् नि यच्छात् ॥

०२ यूयं नो देवा

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.6.2)+++यूयं नो देवा उभयाय वेदसे
शर्म यच्छत द्विपदे चतुष्पदे ।
अदत् पिबद् ऊर्जयमानम् आशितं
तद् अस्मभ्यं शं योर् अरपो दधात ॥

०३ बृहस्पते सवितर् बोधयैनम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.6.3)+++बृहस्पते सवितर् बोधयैनं
संशितं चित् संतरं सं शिशाधि ।
वर्धयैनं महते सौभगाय
विश्व एनम् अनु मदन्ति देवाः ॥

०४ अमुत्रभूयाद् अधि यद्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.6.4)+++अमुत्रभूयाद् अधि यद् यमस्य
बृहस्पतिर् अभिशस्त्या अमुञ्चत ।
प्रति मृत्युम् औहताम् अश्विना ते
देवानाम् अग्ने भिषजा शचीभिः ॥

०५ इन्द्रावरुणा सुतपाव् इमम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.6.5)+++इन्द्रावरुणा सुतपाव् इमं सुतं
मद्यं सोमं पिबतं धृतव्रता ।
युवो रथो अध्वरं देववीतये
प्रति स्वसरम् उप याति पीतये ॥

०६ इन्द्रावरुणा मधुमत्तमस्य वृष्णः

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.6.6)+++इन्द्रावरुणा मधुमत्तमस्य
वृष्णः सोमस्य वृषणा वृषेथाम् ।
इदं वाम् अस्मे परिषिक्तम् अन्ध
आसद्यास्मिन् बर्हिषि मादयेथाम् ॥

०७ उरु विष्णो वि

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.6.7)+++उरु विष्णो वि क्रमस्व्- +++(kramasva)+++
-ओरु क्षयाय निष् कृधि ।
घृतं घृतयोने पिब
प्र प्र यज्ञपतिं तिर ॥

०८ दिवो विष्ण उत

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.6.8)+++दिवो विष्ण उत वा पृथिव्या
उरोर् वा विष्णो महो अन्तरिक्षात् ।
उभा हि हस्तौ मधुना पृणस्व्- +++(pṛṇasva)+++
-आप्रयच्छ दक्षिणाद् ओत सव्यात् ॥

०९ विष्णोर् नू कम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.6.9)+++विष्णोर् नू कं प्र वोचं वीर्याणि
यः पार्थिवानि विममे रजांसि ।
यो अस्कभायद् उत्तरं सधस्थं
विचक्रमाणस् त्रेधोरुगायः ॥

१० प्र तद् विष्णु

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.6.10)+++प्र तद् विष्णु स्तवते वीर्याणि
मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्व्
अधिक्षियन्ति भुवनानि विश्वा ॥