००६

सर्वाष् टीकाः ...{Loading}...

०१ अरेपसः सचेतसः स्वसरे

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.5.1)+++अरेपसः सचेतसः
स्वसरे मन्युमत्तमाः ।
चिते गोः ॥

०२ सम् एत विश्वा

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.5.2)+++सम् एत विश्वा ओजसा पतिं दिवो
य एक इद् भूर् अतिथिर् जनानाम् ।
स पूर्व्यो नूतनम् आविवासन्
तं वर्तनिर् अनु ववृत एकम् इत् पुरु ॥

०३ कुहूं देवीम् अमृताम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.5.3)+++कुहूं देवीम् अमृतां विद्मनापसम्
अस्मिन् यज्ञे सुहवां जोहवीमि ।
या नो ददाति श्रवणं पितॄणां
तस्यै ते देवि हविषा विधेम ॥

०४ कुहूर् देवानाम् अमृतस्य

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.5.4)+++कुहूर् देवानाम् अमृतस्य पत्नी
हव्या नो अस्य हविषः शृणोतु ।
सं दाशुषे किरतु भूरि पुष्टा
रायस्पोषं चिकितुषे दधातु ॥

०५ सं जानीध्वं सम्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(PSK 20.5.5)+++सं जानीध्वं सं पृच्यध्वं
सं वो मनांसि जानताम् ।
मित्रो वः सर्वाः सं सृजान्
मयि संज्ञानम् अस्तु वः ॥