सर्वाष् टीकाः ...{Loading}...
०१ सावीर् हि देव
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.3.1)सावीर् हि देव प्रथमाय पित्रे
वर्ष्माणम् अस्मै वरिमाणम् अस्मै ।
अथास्मभ्यं सवितर् वार्याणि
द्वेद्वे आ सुवा भूरि पश्वः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.3.1)सावीर् हि देव प्रथमाय पित्रे
वर्ष्माणम् अस्मै वरिमाणम् अस्मै ।
अथास्मभ्यं सवितर् वार्याणि
द्वेद्वे आ सुवा भूरि पश्वः ॥
सर्वाष् टीकाः ...{Loading}...
०२ भद्राद् अधि श्रेयः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.3.2)भद्राद् अधि श्रेयः प्रेहि
बृहस्पतिः पुरएता ते अस्तु ।
अथेमम् अस्या वर आ पृथिव्या
आरेशत्रुं कृणुहि सर्ववीरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.3.2)भद्राद् अधि श्रेयः प्रेहि
बृहस्पतिः पुरएता ते अस्तु ।
अथेमम् अस्या वर आ पृथिव्या
आरेशत्रुं कृणुहि सर्ववीरम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ दमूना देवः सविता
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.3.3)दमूना देवः सविता वरेण्यो
दधद् रत्नं दक्षं पितृभ्य आयूंषि ।
पिबात् सोमं ममदद् एनम् इष्टे
परिज्मा चिद् रमते अस्य धर्मणि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.3.3)दमूना देवः सविता वरेण्यो
दधद् रत्नं दक्षं पितृभ्य आयूंषि ।
पिबात् सोमं ममदद् एनम् इष्टे
परिज्मा चिद् रमते अस्य धर्मणि ॥
सर्वाष् टीकाः ...{Loading}...
०४ तां सवितुः सत्यसवस्य
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.3.4)तां सवितुः सत्यसवस्य चित्रां
वयं देवस्य प्रसवे वनामहे ।
याम् अस्य कण्वो अदुहत् प्रपीनां
सहस्रधारां महिषो भराय ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.3.4)तां सवितुः सत्यसवस्य चित्रां
वयं देवस्य प्रसवे वनामहे ।
याम् अस्य कण्वो अदुहत् प्रपीनां
सहस्रधारां महिषो भराय ॥
सर्वाष् टीकाः ...{Loading}...
०५ को नो अस्या
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.3.5)को नो अस्या द्रुहो ऽवद्यवत्या
उन् नेषति क्षत्रियो वस्य इच्छन् ।
कः पूर्तिकामः क उ यज्ञकामः
को देवेषु वनुते दीर्घम् आयुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.3.5)को नो अस्या द्रुहो ऽवद्यवत्या
उन् नेषति क्षत्रियो वस्य इच्छन् ।
कः पूर्तिकामः क उ यज्ञकामः
को देवेषु वनुते दीर्घम् आयुः ॥
सर्वाष् टीकाः ...{Loading}...
०६ कः पृश्निं धेनुम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.3.6)कः पृश्निं धेनुं वरुणेन दत्ताम्
अथर्वणे सुदुघां नित्यवत्साम् ।
तां बृहस्पत्या सख्या दुहानो
यथावशं तन्वः कल्पयाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.3.6)कः पृश्निं धेनुं वरुणेन दत्ताम्
अथर्वणे सुदुघां नित्यवत्साम् ।
तां बृहस्पत्या सख्या दुहानो
यथावशं तन्वः कल्पयाति ॥
सर्वाष् टीकाः ...{Loading}...
०७ न घ्रंस् तताप
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.3.7)न घ्रंस् तताप न हिमो जघान
प्र सर्सृते पृथिवी जीरदानुः ।
आपश् चिद् अस्मै सदम् इत् क्षरन्ति
यत्र सोमः सदम् इत् तत्र भद्रम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.3.7)न घ्रंस् तताप न हिमो जघान
प्र सर्सृते पृथिवी जीरदानुः ।
आपश् चिद् अस्मै सदम् इत् क्षरन्ति
यत्र सोमः सदम् इत् तत्र भद्रम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यस्या इदं प्रदिशि
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.3.8)यस्या इदं प्रदिशि यद् विरोचते
अनुमतिं प्रति भूषन्त्य् आयवः ।
यस्या उपस्थ उर्व् अन्तरिक्षं
सा नः शर्म बहुलं नि यच्छात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.3.8)यस्या इदं प्रदिशि यद् विरोचते
अनुमतिं प्रति भूषन्त्य् आयवः ।
यस्या उपस्थ उर्व् अन्तरिक्षं
सा नः शर्म बहुलं नि यच्छात् ॥
सर्वाष् टीकाः ...{Loading}...
०९ अन्व् अद्य नो
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.3.9)अन्व् अद्य नो अनुमतिर्
यज्ञं देवेषु यच्छताम् ।
अग्निश् च हव्यवाहनो
भवतां दाशुषे मयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.3.9)अन्व् अद्य नो अनुमतिर्
यज्ञं देवेषु यच्छताम् ।
अग्निश् च हव्यवाहनो
भवतां दाशुषे मयः ॥
सर्वाष् टीकाः ...{Loading}...
१० अन्व् इद् अनुमते
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.3.10)अन्व् इद् अनुमते त्वं
मंससे शं च नस् कृधि ।
इषं तोकाय नो दधः
प्र ण आयूंषि तारिषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.3.10)अन्व् इद् अनुमते त्वं
मंससे शं च नस् कृधि ।
इषं तोकाय नो दधः
प्र ण आयूंषि तारिषः ॥