००३

सर्वाष् टीकाः ...{Loading}...

०१ इदं ते हव्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)इदं ते हव्यं घृतवत् सरस्वत्- (sarasvati)
-ईदं पितॄणां हविरास्यं यत् ।
इमानि त उदिता शंतमानि
तेभिर् वयं मघवानः स्याम ॥

०२ प्रपथे पथाम् अजनिष्ट

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)प्रपथे पथाम् अजनिष्ट पूषा
प्रपथे दिवः प्रपथे पृथिव्याः ।
उभे अभि प्रियतमे सधस्थे
आ च परा च चरति प्रजानन् ॥

०३ पूषेमा आशा अनु

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)पूषेमा आशा अनु वेद सर्वाः
सो अस्माꣳ अभयतमेन नेषत् ।
स्वस्तिदा आघृणिः सर्ववीरो
+ऽप्रयुच्छन् पुर एतु प्रजानन् ॥

०४ पूषा गा अन्व्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)पूषा गा अन्व् एतु नः
पूषा रक्षत्व् अर्वतः ।
पूषा वाजं सनोतु नः ॥

०५ पूषन् तव व्रते

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)पूषन् तव व्रते वयं
न रिष्येम कदा चन ।
स्तोतारस् त इह स्मसि ॥

०६ शुक्रं ते अन्यद्

विश्वास-प्रस्तुतिः ...{Loading}...

(not found in PSK)शुक्रं ते अन्यद् यजतं ते अन्यद्
विषुरूपे अहनी द्यौर् इवासि ।
विश्वा हि माया अवसि स्वधावो
भद्रा ते पूषन्न् इह रातिर् अस्तु ॥

०७ धाता दधातु दाशुषे

विश्वास-प्रस्तुतिः ...{Loading}...

(ab- not found in PSK; cd= PSK 20.2.4cd)धाता दधातु दाशुषे
प्राञ्चं जीवातुम् अक्षितम् ।
वयं देवस्य धीमहि
सुमतिं सत्यधर्मणः ॥

०८ धाता विश्वानि दाशुषे

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.2.5)धाता विश्वानि दाशुषे दधातु
प्रजाकामाय दाशुषे दुरोणे ।
तस्य प्रजा अमृताः सं व्ययन्तु
विश्वे देवासो अदितिः सजोषाः ॥

०९ धाता रातिः सवितेदम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.2.6)धाता रातिः सवितेदं जुषन्तां
प्रजापतिर् निधिपतिर् नो अग्निः ।
त्वष्टा पूषा प्रजया संरराणो
यजमानाय द्रविणं दधातु ॥

१० धाता प्रजानाम् उत

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.2.7)धाता प्रजानाम् उत राय ईशे
धातेदं विश्वं भुवनं जजान ।
सं दाशुषे वहतु भूरि पुष्टा
तस्मै देवाय हविषा विधेम ॥