०५६

सर्वाष् टीकाः ...{Loading}...

०१ विराड् असि विराजम्

विश्वास-प्रस्तुतिः ...{Loading}...

विराड् असि विराजं मा कृणु
तस्यास् ते यशो भक्षीय ॥

०२ स्वराड् असि स्वराजम्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वराड् असि स्वराजं मा कृणु
तस्यास् ते मधु भक्षीय ॥

०३ सम्राड् असि सम्राजम्

विश्वास-प्रस्तुतिः ...{Loading}...

सम्राड् असि सम्राजं मा कृणु
तस्यास् ते अन्नं भक्षीय ॥

०४ वीर्यावता ते हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

वीर्यावता ते हविषा जुहोमि
जीवातवे न मर्तवे ।
दक्षं ते भद्रम् आहार्षं
परा सुवाम्य् आमयत् ॥

०५ अभिवीरेण ते

विश्वास-प्रस्तुतिः ...{Loading}...

अभिवीरेण ते (…) ॥ (see 4abcd)

०६ सुवीरेण ते

विश्वास-प्रस्तुतिः ...{Loading}...

सुवीरेण ते (…) ॥ (see 4abcd)

०७ सर्ववीरेण ते हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

सर्ववीरेण ते हविषा जुहोमि
जीवातवे न मर्तवे ।
दक्षं ते भद्रम् आहार्षं
परा सुवाम्य् आमयत् ॥

०८ प्रजावता ते हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजावता ते हविषा जुहोमि
गर्भम् आ धत्स्व योन्याम् । (Bhatt. garmam)
स काले जायतां पुनर्
दशमे मासि सूतवे ॥

०९ सुप्रजसा ते

विश्वास-प्रस्तुतिः ...{Loading}...

सुप्रजसा ते (…) ॥ (see 8abcd)

१० सुपुत्रेण ते हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

सुपुत्रेण ते हविषा जुहोमि
गर्भम् आ धत्स्व योन्याम् ।
स काले जायतां पुनर्
दशमे मासि सूतवे ॥

११ भूतये ते हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

भूतये ते हविषा जुहोमि-
-इमं देवासो अभि हिङ् कराथ ।
अस्मिन्न् एव पशवः सं विशन्तु
चतुष्पाद उत वा ये द्विपादः ॥

१२ वित्तये ते

विश्वास-प्रस्तुतिः ...{Loading}...

वित्तये ते (…) ॥ (see 11abcd)

१३ स्वृद्धेन ते

विश्वास-प्रस्तुतिः ...{Loading}...

स्वृद्धेन ते (…) ॥ (see 11abcd)

१४ समृद्धेन ते हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

समृद्धेन ते हविषा जुहोमि-
-इमं देवासो अभि हिङ् कराथ ।
अस्मिन्न् एव पशवः सं विशन्तु
चतुष्पाद उत वा ये द्विपादः ॥

१५ क्षेम्येण ते हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

क्षेम्येण ते हविषा जुहोमि
क्षेम्यो भवासि पशुभिश् च वीरैः ।
इन्द्राग्नी त्वा सयुजा सखायौ
विश्वेभिर् देवैर् अनु सं ददेताम् ॥

१६ प्रतिष्ठितेन ते हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतिष्ठितेन ते हविषा जुहोमि
प्रति तिष्ठासि पशुभिः (…) ॥ (see 15bcd)

१७ सम्भूतेन ते हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

सम्भूतेन ते हविषा जुहोमि
सं भवासि पशुभिः (…) ॥ (see 15bcd)

१८ प्रभूतेन ते हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रभूतेन ते हविषा जुहोमि
प्र भवासि पशुभिश् च वीरैः ।
इन्द्राग्नी त्वा सयुजा सखायौ
विश्वेभिर् देवैर् अनु सं ददेताम् ॥