०५५

सर्वाष् टीकाः ...{Loading}...

०१ ययोः सर्वम् इदम्

विश्वास-प्रस्तुतिः ...{Loading}...

ययोः सर्वम् इदम् आर्पितं वशे
भूतं च निमिषच् च चेष्टत् । +++(Bhatt. ceṣṭata(⟨ ceṣṭat))+++
तौ मा वदन्तं गृह्णीताम् उपद्रष्टारम् अत्र
मास्योच् छेष्य् अयथावत् प्रजापते ॥

०२ यो मा वदन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा वदन्तं हृदयेन वाचा
वाचा श्रोत्रेण मनसा जिहृक्षात् ।
तम् इन्द्रो देवो वरुणो बृहस्पतिर्
ईशानो देवो अभि यातु मृत्युर्
यथा न जीवाद् उषसं तृतीयाम् ॥ +++(Bhatt. tṛtīyān (⟨ -yām))+++

०३ यो मा जिहृक्षाद्

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा जिहृक्षाद् ब्रह्मीयान् मन्यमान
इत्थं विद्वांसं प्रमतिर् मतीनाम् ।
तम् इन्द्रो देवो वरुणो बृहस्पतिर्
ईशानो देवो अभि यातु मृत्युर्
यथा न जीवाद् उषसं तृतीयाम् ॥

०४ प्रत्यग्वधेनास्यापि दधामि प्राणम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्यग्वधेनास्यापि दधामि
प्राणं मो दानं विदत यो मा जिहृक्षात् ।
सो अस्यायुर् आ छिनत्तु कुलिशेनेव वृक्षं
यथा न जीवाद् उषसं तृतीयाम् ॥

०५ यस्या अक्षरम् एकम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्या अक्षरम् एकम् एव
परः सहस्रा अयुतं च शाखाः ।
तस्या वाचो विदथावदन्तं
यो मा जिहृक्षात् स न्व् एत्व् आर्तिम् ॥

०६ उषा वा आदित्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

उषा वा आदित्यम् ऐन्ध
स उषसेद्ध उद् ऐत् स उद्यन् प्रजाभ्य आतपत् +++(Bhatt. uṣasedya)+++
सो ऽप तमो ऽहत सो ऽन्नाद्यम् अवारुन्ध ।
अप तमो हते ऽन्नादो भवति य एवं वेद ॥

०७ वातो वा अग्निम्

विश्वास-प्रस्तुतिः ...{Loading}...

वातो वा अग्निम् ऐन्ध
स वातेनेद्धो ऽज्वलत् सो ऽदीप्यत
सो ऽप तमो ऽहत सो ऽन्नाद्यम् अवारुन्ध ।
अप तमो हते ऽन्नादो भवति य एवं वेद ॥

०८ मनोमयी ब्राह्मणम् ऐन्ध

विश्वास-प्रस्तुतिः ...{Loading}...

मनोमयी ब्राह्मणम् ऐन्ध +++(Bhatt. (⟨ mano vai))+++
स ब्रह्मचर्यम् अवसत् स वेदम् अन्व् अब्रूत
सो ऽप तमो ऽहत सो ऽन्नाद्यम् अवारुन्ध ।
अप तमो हते ऽन्नादो भवति य एवं वेद ॥

०९ होमेन प्रतिरन् प्रजापते

विश्वास-प्रस्तुतिः ...{Loading}...

होमेन प्रतिरन् प्रजापते दम्पती परि दधामि पुष्ट्या ।
रायस्पोषं सवितर् नि यच्छ
जरामृत्यू कृणुहि सर्ववीरौ ॥

१० अयं होमो वर्धयन्न्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं होमो वर्धयन्न् एतु दम्पती
प्रजावन्तौ पशुवन्तौ सुवीरौ ।
रायस्पोषं सवितर् नि यच्छ
जरामृत्यू कृणुहि सर्ववीरौ ॥

११ गोमन्तं पशुमन्तम् अश्वमन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

गोमन्तं पशुमन्तम् अश्वमन्तं
होमं दम्पतीभ्यां जुहोमि ।
रायस्पोषं सवितर् नि यच्छ
जरामृत्यू कृणुहि सर्ववीरौ ॥

१२ जीवा स्थ जीव्यासम्

विश्वास-प्रस्तुतिः ...{Loading}...

जीवा स्थ जीव्यासं सर्वम् आयुर् जीव्यासम् ॥

१३ उपजीवा स्थोप जीव्यासम्

विश्वास-प्रस्तुतिः ...{Loading}...

उपजीवा स्थोप जीव्यासं सर्वम् आयुर् जीव्यासम् ॥

१४ सञ्जीवा स्थ सम्

विश्वास-प्रस्तुतिः ...{Loading}...

संजीवा स्थ सं जीव्यासं सर्वम् आयुर् जीव्यासम् ॥

१५ जीवला स्थ जीव्यासम्

विश्वास-प्रस्तुतिः ...{Loading}...

जीवला स्थ जीव्यासं सर्वम् आयुर् जीव्यासम् ॥

१६ प्रजापतेर् आकूतिर् असि

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतेर् आकूतिर् असि साहस्री पुष्टिः ।
प्रजापतेर् आकूत्याहं साहस्र्या पुष्ट्या
साहस्रान् पशून् पुषेयम् ॥

१७ बृहस्पतेर् आकूतिः बृहस्पतेर्

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतेर् आकूतिः (…) ।
बृहस्पतेर् आकूत्या (…) ॥

१८ ब्रह्मण आकूतिर् असि

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मण आकूतिर् असि साहस्री पुष्टिः ।
ब्रह्मण आकूत्याहं साहस्र्या पुष्ट्या
साहस्रान् पशून् पुषेयम् ॥