०५२

सर्वाष् टीकाः ...{Loading}...

०१ दिवो नभः शुक्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो नभः शुक्रं पयो दुहाना-
-र्तस्य नाभिर् अमृतं वि चष्टे ॥

०२ घृतं दुहाना विश्वतः

विश्वास-प्रस्तुतिः ...{Loading}...

घृतं दुहाना विश्वतः प्रपीताम्
ऊर्जं दुहाना अनपस्फुरन्तीम् ।
उपासतां सुकृतः स्वधाभिः ॥

०३ घृतम् इच्छ पिन्वमानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

घृतम् इच्छ पिन्वमानाम् +++(Bhatt. (⟨ ghṛtam utsaṃ))+++
इमां योनिम् उपाध्वम् ।
स्वधा याश् चकृषे जीवन् +++(Bhatt. jīvaṃ (⟨ n))+++
तास् ते सन्तु मधुश्चुतः ॥

०४ सं रसा ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं रसा ओषधीनां
सम् आकूतीर् नमन्तु मे ।
ऊर्जस्वन्तं पयस्वन्तं
पृथिव्या हस्तम् अन्व् अगाम् ॥

०५ परिणीतिर् असि हस्तस्य

विश्वास-प्रस्तुतिः ...{Loading}...

परिणीतिर् असि हस्तस्य
पथः परिणीतिर् असि ।
एवा ह दुष्वप्न्यं सर्वं
स्तम्बे परि णयामसि ॥

०६ पयस्वन् मे क्षेत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

पयस्वन् मे क्षेत्रम् अस्तु
पयस्वद् उत धान्यम् ।
कृषिः पयस्वती मम-
-अहं पयस्वान् भूयासम् ॥

०७ वृष्णे बृहते स्वर्विदे

विश्वास-प्रस्तुतिः ...{Loading}...

वृष्णे बृहते स्वर्विदे
ऽग्नये शुक्लं हरामि त्विषीमते ।
स न स्थिरान् बलवतः कृणोतु +++(Bhatt. sa naḥ)+++
ज्योक् च नो जीवातवे दधातु ॥

०८ वेद वै ते

विश्वास-प्रस्तुतिः ...{Loading}...

वेद वै ते ऽग्ने नाम-
-अद्भिर् नामासि त्रिवरूथः ।
त्रयः पोषास् त्रिवृद् अस्मान् यज्ञः सचताम् ॥

०९ प्रजापतेः पयसा वावृधाना

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतेः पयसा वावृधाना +++(Bhatt. vāvṛdhānāv (⟨ ā))+++
आयुष्मन्तो वर्चस्विनः ।
ज्योग् जीवन्त उप त्वा सदेम ॥

१० उरूणसाव् असुतृपा उदुम्बलौ

विश्वास-प्रस्तुतिः ...{Loading}...

उरूणसाव् असुतृपा उदुम्बलौ
यमस्य दूतौ चरतो जनाँ अनु ।
वेदाहं वेद सूर्यः
किम् एतौ किं करिष्यतः ॥

११ न मा ददम्भ

विश्वास-प्रस्तुतिः ...{Loading}...

न मा ददम्भ दभसादभीयं
न पाको अस्मि जनुषा न शिष्यः ।
अभीषाड् अस्मि विश्वाषाट् पृतनाषाट् स्वर्विद्
यद् इदं विश्वं भुवनं सो अस्मि ॥

१२ आस्थाद् उद् अस्थाद्

विश्वास-प्रस्तुतिः ...{Loading}...

आस्थाद् उद् अस्थाद् अजनिष्ट विप्रो
ऽमिमीत वरिमाणं पृथिव्याः ।
आसीदत् संराड् भुवनानि विश्वा
स इच्छा वेद वरुणस्य व्रतानि ॥ +++(Bhatt. (icchā ⟨ itthād))+++

१३ प्रजापतिः प्रजावान् स

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिः प्रजावान्
स मा प्रजावान् प्रजावन्तं कृणोतु ॥

१४ सूर्यो वर्चस्वान् स

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यो वर्चस्वान्
स मा वर्चस्वान् वर्चस्वन्तं कृणोतु ॥

१५ सोमः पयस्वान् स

विश्वास-प्रस्तुतिः ...{Loading}...

सोमः पयस्वान्
स मा पयस्वान् पयस्वन्तं कृणोतु ॥

१६ त्रिंशन् मुष्काः काबवस्य

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिंशन् मुष्काः काबवस्य
दश मुष्का उलूक्याः ।
चत्वारस् तव कर्दम ॥

१७ तांस् त्वम् उग्रकाशिनि

विश्वास-प्रस्तुतिः ...{Loading}...

तांस् त्वम् उग्रकाशिनि
मूले अपि कृन्ततात् ।
आसुरो ऽसि जन्मना
तं त्वेतो नाशयामसि ॥

१८ इन्द्रजा असि सोमजास्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रजा असि सोमजास्
तं त्वेतो निष् प्र हिण्मसि । +++(Bhatt. tan)+++
उर्वा मत्स्यो मधूदकं
तस्य पास्य् अत्ययम्
अनास्रावम् अरोगणम् ॥