सर्वाष् टीकाः ...{Loading}...
०१ इदावत्सराय परिवत्सराय संवत्सराय
विश्वास-प्रस्तुतिः ...{Loading}...
इदावत्सराय परिवत्सराय
संवत्सराय प्रति वेदयाम एतत् ।
यद् व्रतेषु दुरितं निजग्मिम
दुर्हार्दं तेन शमलेनाञ्ज्मः ॥ (Bhatt. śamalenājmaḥ)
मूलम् ...{Loading}...
मूलम् (GR)
इदावत्सराय परिवत्सराय
संवत्सराय प्रति वेदयाम एतत् ।
यद् व्रतेषु दुरितं निजग्मिम
दुर्हार्दं तेन शमलेनाञ्ज्मः ॥ (Bhatt. śamalenājmaḥ)
सर्वाष् टीकाः ...{Loading}...
०२ यन् मे व्रतम्
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मे व्रतं व्रतपते लुलोभ-
-अहोरात्रे सम् अधातां म एतत् ।
उद्यन् पुरस्ताद् भिषग् अस्तु चन्द्रमाः
सूर्यो रश्मिभिर् अभि गृणात्व् एतत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मे व्रतं व्रतपते लुलोभ-
-अहोरात्रे सम् अधातां म एतत् ।
उद्यन् पुरस्ताद् भिषग् अस्तु चन्द्रमाः
सूर्यो रश्मिभिर् अभि गृणात्व् एतत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् व्रतम् अतिपेदे
विश्वास-प्रस्तुतिः ...{Loading}...
यद् व्रतम् अतिपेदे
चित्त्या मनसा हृदा ।
आदित्या रुद्रास् तन् मयि
वसवश् च सम् इन्धताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् व्रतम् अतिपेदे
चित्त्या मनसा हृदा ।
आदित्या रुद्रास् तन् मयि
वसवश् च सम् इन्धताम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ व्रतानि व्रतपतय उपा
विश्वास-प्रस्तुतिः ...{Loading}...
व्रतानि व्रतपतय
उपा करोम्य् अग्नये ।
स मे द्युम्नं बृहद् यशो
दीर्घम् आयुष् कृणोतु मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
व्रतानि व्रतपतय
उपा करोम्य् अग्नये ।
स मे द्युम्नं बृहद् यशो
दीर्घम् आयुष् कृणोतु मे ॥
सर्वाष् टीकाः ...{Loading}...
०५ मयोभूर् वातो अभि
विश्वास-प्रस्तुतिः ...{Loading}...
मयोभूर् वातो अभि वातूस्रा
ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् ।
मेदस्वतीर् जीवधन्या मयोभुवः
पद्वते ऽवसाय रुद्र मृड ॥
मूलम् ...{Loading}...
मूलम् (GR)
मयोभूर् वातो अभि वातूस्रा
ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् ।
मेदस्वतीर् जीवधन्या मयोभुवः
पद्वते ऽवसाय रुद्र मृड ॥
सर्वाष् टीकाः ...{Loading}...
०६ या एकरूपा विश्वरूपाः
विश्वास-प्रस्तुतिः ...{Loading}...
या एकरूपा विश्वरूपाः सरूपा
यासाम् अग्निर् ऊधो वो जन्म वेद ।
या अङ्गिरसस् तपसेह चक्रुस्
ताभ्यः पर्जन्य महि शर्म यच्छात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
या एकरूपा विश्वरूपाः सरूपा
यासाम् अग्निर् ऊधो वो जन्म वेद ।
या अङ्गिरसस् तपसेह चक्रुस्
ताभ्यः पर्जन्य महि शर्म यच्छात् ॥
सर्वाष् टीकाः ...{Loading}...
०७ या देवेषु तन्व
विश्वास-प्रस्तुतिः ...{Loading}...
या देवेषु तन्व ऐरयन्त
यासां सोमो रूपधेयानि वेद ।
ता अस्मभ्यं बहुलाः पिन्वमानाः
प्रजावतीर् इन्द्र गोष्ठे दिदिश्याः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या देवेषु तन्व ऐरयन्त
यासां सोमो रूपधेयानि वेद ।
ता अस्मभ्यं बहुलाः पिन्वमानाः
प्रजावतीर् इन्द्र गोष्ठे दिदिश्याः ॥
सर्वाष् टीकाः ...{Loading}...
०८ प्रजापतिर् मह्यम् एता
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापतिर् मह्यम् एता रराणो
बह्वीः सतीर् उप मे गोष्ठ आकः ।
तासां वयं प्रजया सं सदेम
ज्योग् जीवन्तः शरदः पुरूचीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापतिर् मह्यम् एता रराणो
बह्वीः सतीर् उप मे गोष्ठ आकः ।
तासां वयं प्रजया सं सदेम
ज्योग् जीवन्तः शरदः पुरूचीः ॥
सर्वाष् टीकाः ...{Loading}...
०९ अभिष्ठिता चर्कर्दीति पिशङ्गी
विश्वास-प्रस्तुतिः ...{Loading}...
अभिष्ठिता चर्कर्दीति
पिशङ्गी बहुकर्दिनी ।
कर्दो ह जज्ञे हालीक्ष्णाद्
व्रीहेर् माषाद् अथो यवात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभिष्ठिता चर्कर्दीति
पिशङ्गी बहुकर्दिनी ।
कर्दो ह जज्ञे हालीक्ष्णाद्
व्रीहेर् माषाद् अथो यवात् ॥
सर्वाष् टीकाः ...{Loading}...
१० यथा भसद् धालीक्ष्णस्य
विश्वास-प्रस्तुतिः ...{Loading}...
यथा भसद् धालीक्ष्णस्य
न संभवति कर्दवे ।
एवा हलग्न कर्दय
निर् ग्रामान् निर् दिशो जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा भसद् धालीक्ष्णस्य
न संभवति कर्दवे ।
एवा हलग्न कर्दय
निर् ग्रामान् निर् दिशो जहि ॥
सर्वाष् टीकाः ...{Loading}...
११ यथा परस्वां छर्धते
विश्वास-प्रस्तुतिः ...{Loading}...
यथा परस्वां छर्धते
गर्दभः कृधुसन्दृशः ।
एवा ते शर्धतां भसद्
धालीक्ष्णपर्ण शर्धय
वृत्रहा शाकी शर्धय ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा परस्वां छर्धते
गर्दभः कृधुसन्दृशः ।
एवा ते शर्धतां भसद्
धालीक्ष्णपर्ण शर्धय
वृत्रहा शाकी शर्धय ॥
सर्वाष् टीकाः ...{Loading}...
१२ पवीरवल् लाङ्गलं सुशेवम्
विश्वास-प्रस्तुतिः ...{Loading}...
पवीरवल् लाङ्गलं
सुशेवं सोमपित्सरम् ।
तद् उत् कृषति गाम् अविं
प्रफर्व्यं च पीवरीं
प्रस्तावं रथवाहनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पवीरवल् लाङ्गलं
सुशेवं सोमपित्सरम् ।
तद् उत् कृषति गाम् अविं
प्रफर्व्यं च पीवरीं
प्रस्तावं रथवाहनम् ॥
सर्वाष् टीकाः ...{Loading}...
१३ शुनं वरत्राम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
शुनं वरत्राम् आ यच्छ
शुनम् अष्ट्राम् उद् इङ्गय ।
शुनं वाहस्य युक्तस्य-
-अष्ट्रया जहि दक्षिणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुनं वरत्राम् आ यच्छ
शुनम् अष्ट्राम् उद् इङ्गय ।
शुनं वाहस्य युक्तस्य-
-अष्ट्रया जहि दक्षिणम् ॥
सर्वाष् टीकाः ...{Loading}...
१४ मधुमन्तं नि गृहाण
विश्वास-प्रस्तुतिः ...{Loading}...
मधुमन्तं नि गृहाण
फालं क्षेत्रेषु सर्वदा ।
तत् पर्जन्यो ऽभि वर्षतु
भूम्ने धान्याय कर्तवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधुमन्तं नि गृहाण
फालं क्षेत्रेषु सर्वदा ।
तत् पर्जन्यो ऽभि वर्षतु
भूम्ने धान्याय कर्तवे ॥
सर्वाष् टीकाः ...{Loading}...
१५ एता उ त्या
विश्वास-प्रस्तुतिः ...{Loading}...
एता उ त्या अदृक्षत-
-आयतीर् वेद्याम् अधि । (Bhatt. adṛ(⟨ nṛ)kṣarā (ā) yatīr)
प्राहाग्निर् हव्यं देवेभ्यो
मन्त्रो होता हविष्पतिः ॥ (Bhatt. mandro)
मूलम् ...{Loading}...
मूलम् (GR)
एता उ त्या अदृक्षत-
-आयतीर् वेद्याम् अधि । (Bhatt. adṛ(⟨ nṛ)kṣarā (ā) yatīr)
प्राहाग्निर् हव्यं देवेभ्यो
मन्त्रो होता हविष्पतिः ॥ (Bhatt. mandro)
सर्वाष् टीकाः ...{Loading}...
१६ एमा अगुर् मयोभुवो
विश्वास-प्रस्तुतिः ...{Loading}...
एमा अगुर् मयोभुवो
मधोर् ऊधांसि बिभ्रतीः ।
ता उप प्र शिक्षत
दुहाना अक्षितं पयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एमा अगुर् मयोभुवो
मधोर् ऊधांसि बिभ्रतीः ।
ता उप प्र शिक्षत
दुहाना अक्षितं पयः ॥
सर्वाष् टीकाः ...{Loading}...
१७ इडा स्थ मधुपृचो
विश्वास-प्रस्तुतिः ...{Loading}...
इडा स्थ मधुपृचो
विश्वरूपास् ता मा विशत ।
सह प्राणेन तेजसा
हरसा बलेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
इडा स्थ मधुपृचो
विश्वरूपास् ता मा विशत ।
सह प्राणेन तेजसा
हरसा बलेन ॥