०५०

सर्वाष् टीकाः ...{Loading}...

०१ प्र द्यौः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

प्र द्यौः प्र पृथिवी
प्रान्तरिक्षं स्वम् अर्हत् ।
प्रेतः समुद्रिया आपः
शल्यम् अचुच्यवुः ॥

०२ प्र त्वा वातश्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र त्वा वातश् च्यावयतु
प्र भूमिः सहसा सह ।
प्रेतः समुद्रिया आपः
शल्यम् अचुच्यवुः ॥

०३ प्र त्वा सूर्यश्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र त्वा सूर्यश् च्यावयतु
नक्षत्रैः सह मेदिभिः ।
प्रेतः समुद्रिया आपः
शल्यम् अचुच्यवुः ॥

०४ यो मा पौतुद्रुवो

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा पौतुद्रुवो मणिर् (Bhatt. om. yo mā)
विश्वभेषज आगमत् ।
सो अस्मत् सर्वं दुष्वप्न्यम्
अप हन्तु तमश् च यत् ॥

०५ अपास्मत् सर्वं दुष्वप्न्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपास्मत् सर्वं दुष्वप्न्यम्
अप पापीं च लक्ष्म्यम् ।
अधा हिरण्यवर्चसं
सर्वदा मा मणे कृधि ॥

०६ सर्वदैवाहं भगवान् इन्द्रियावान्

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वदैवाहं भगवान्
इन्द्रियावान् विषासहिः ।
यो मा पौतुद्रुवो मणिर्
द्रविणेन सहारुहद्
इन्द्रेण सहारुहत् ॥

०७ पुमान् अश्वो धनम्

विश्वास-प्रस्तुतिः ...{Loading}...

पुमान् अश्वो धनं वित्तिं
पुमान् निष्को हिरण्ययः ।
पुमांसं पुत्रम् ओषधे
ऽस्या आ धेहि नार्यै ॥

०८ यथानन्दाः पुंसि जाते

विश्वास-प्रस्तुतिः ...{Loading}...

यथानन्दाः पुंसि जाते
न व्रवस्तीति कश् चन ।
एवा त्वं पुत्रम् ओषधे
ऽस्या आ धेहि नार्यै ॥

०९ अश्वेन रिष्येन गवा

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वेन रिष्येन गवा (Bhatt. riṣyena (⟨ ṛṣyena))
क्रीतास्य् ओषधे । (Bhatt. om. । (found in K))
अश्वः श्वेतो धनं तव
हिरण्यं हरितं तव ।
दत्ता सोमेन राज्ञेह
पुंसवनं भव ॥

१० यन् मे नृम्णम्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मे नृम्णं द्रविणं ब्राह्मणं च
यच् च श्रुतं यच् च रत्नं बिभर्मि ।
एतन् नो अत्र निधिपानु पातु
यावद् ऐमि स्त्रीयणमज्मा व्यज्य ॥

११ यन् मे नृम्णम्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मे नृम्णं द्रविणं ब्राह्मणं च
ये अग्नयो धृष्णियासो मयीमे ।
हरिश्चन्द्रो रक्षतु तन् नो अत्र
यावद् ऐमि परो ग्रामं चरित्वा ॥

१२ एष ऐमि परो

विश्वास-प्रस्तुतिः ...{Loading}...

एष ऐमि परो ग्रामं चरित्वा-
-अच्छ नृम्णं द्रविणं ब्राह्मणं च ।
यद् अत्रापि त्वे शुचि-
-इदं तद् अहम् आ ददे ॥

१३ आ सूर्यो हि

विश्वास-प्रस्तुतिः ...{Loading}...

आ सूर्यो हि प्रथमं दस्युहत्याय
शक्र हारी युञ्जानो मघवन् सहस्रम् ।
दासं वर्णं रन्धयन्न् आर्याय
युञ्जानो बाहू पुरुहूत वज्रम् ॥

१४ आहृडते दस्युहत्याय तूर्ण

विश्वास-प्रस्तुतिः ...{Loading}...

आहृडते दस्युहत्याय
तूर्ण दृढानि पर्वा शृणीहीन्द्र ।
तीव्राश्रद्धो बहुलान्य् एषाम्
अयुज्वनो अर्पय सं वधेन ॥

१५ दर्शन् नु चित्रपावानम्

विश्वास-प्रस्तुतिः ...{Loading}...

दर्शन् नु चित्रपावानम् इन्द्रं
बहु साकं शराꣳ इव पत्यमानान् ।
ये नो घृष्विं मघवानं पृतन्यान्
अभीरु तेषु कवयो ववृत्युः ॥