सर्वाष् टीकाः ...{Loading}...
०१ इन्द्रं वयं वणिजो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं वयं वणिजो हवामहे
स नस् त्राता पुर एतु प्रजानन् ।
घ्नन्न् अरातिं परिपन्थिनं मृगं
स ईशानो धनदा अस्तु मह्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रं वयं वणिजो हवामहे
स नस् त्राता पुर एतु प्रजानन् ।
घ्नन्न् अरातिं परिपन्थिनं मृगं
स ईशानो धनदा अस्तु मह्यम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ पणो नो अस्तु
विश्वास-प्रस्तुतिः ...{Loading}...
पणो नो अस्तु प्रपणो विक्रयश् च
प्रतिपणो नो धनिनः कृणोतु ।
संरराणा आहुतिं जुषन्तां
शुनं नो अस्तु चरितम् उत्थितं च ॥
मूलम् ...{Loading}...
मूलम् (GR)
पणो नो अस्तु प्रपणो विक्रयश् च
प्रतिपणो नो धनिनः कृणोतु ।
संरराणा आहुतिं जुषन्तां
शुनं नो अस्तु चरितम् उत्थितं च ॥
सर्वाष् टीकाः ...{Loading}...
०३ यत् पणेन प्रतिपणम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् पणेन प्रतिपणं चरामि
स्वेन देवा धनम् इच्छमानः ।
इन्द्रो मे तस्मिन् रुचम् आ दधातु
बृहस्पतिः सविता सोमो अग्निः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् पणेन प्रतिपणं चरामि
स्वेन देवा धनम् इच्छमानः ।
इन्द्रो मे तस्मिन् रुचम् आ दधातु
बृहस्पतिः सविता सोमो अग्निः ॥
सर्वाष् टीकाः ...{Loading}...
०४ ये वः पन्था
विश्वास-प्रस्तुतिः ...{Loading}...
ये वः पन्था बहवो देवयाना
अनु द्यावापृथिवी संचरन्ति ।
तेषाम् अहं मां वर्चस्या दधामि
यथा क्रीत्वा धनम् आ वहानि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये वः पन्था बहवो देवयाना
अनु द्यावापृथिवी संचरन्ति ।
तेषाम् अहं मां वर्चस्या दधामि
यथा क्रीत्वा धनम् आ वहानि ॥
सर्वाष् टीकाः ...{Loading}...
०५ विद्धवाससे निरृतेर् ये
विश्वास-प्रस्तुतिः ...{Loading}...
विद्धवाससे निरृतेर् +++(Bhatt. nirṛti(te?)r)+++
ये च पाशा अपश्रिताः ।
तेभ्यः प्र मुच्यते वर्मी
विष्कन्धम् उप सादयन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विद्धवाससे निरृतेर् +++(Bhatt. nirṛti(te?)r)+++
ये च पाशा अपश्रिताः ।
तेभ्यः प्र मुच्यते वर्मी
विष्कन्धम् उप सादयन् ॥
सर्वाष् टीकाः ...{Loading}...
०६ न वै तद्
विश्वास-प्रस्तुतिः ...{Loading}...
न वै तद् वासो भवति
यस्मिन् विध्यन्ति पूरुषम् ।
अस्ना समज्यते रूपं
तस्मात् तद् अपलोप्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
न वै तद् वासो भवति
यस्मिन् विध्यन्ति पूरुषम् ।
अस्ना समज्यते रूपं
तस्मात् तद् अपलोप्यम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ उत्तिष्ठन्न् अप्रियायत अविद्वान्
विश्वास-प्रस्तुतिः ...{Loading}...
उत्तिष्ठन्न् अप्रियायत-
-अविद्वान् बहुभाज्यम् ।
न पन्थां भद्रम् अश्नुते
य एनेन चरात् सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्तिष्ठन्न् अप्रियायत-
-अविद्वान् बहुभाज्यम् ।
न पन्थां भद्रम् अश्नुते
य एनेन चरात् सह ॥
सर्वाष् टीकाः ...{Loading}...
०८ ब्रह्मणैतत् प्रतिगृह्यं तेन
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मणैतत् प्रतिगृह्यं
तेन तत् कृणुते शिवम् ।
आर्कात् प्रमुच्यते पाशात्
तेन दाता वि पश्यति ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मणैतत् प्रतिगृह्यं
तेन तत् कृणुते शिवम् ।
आर्कात् प्रमुच्यते पाशात्
तेन दाता वि पश्यति ॥
सर्वाष् टीकाः ...{Loading}...
०९ यौ व्याघ्राव् अवरूढाव्
विश्वास-प्रस्तुतिः ...{Loading}...
यौ व्याघ्राव् अवरूढाव् अवाञ्चौ
जिघत्सतः पितरं मातरं च ।
तौ दन्तौ ब्रह्मणा ब्रह्मणस्पते
शिवौ कृणु त्वम् इह जातवेदः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यौ व्याघ्राव् अवरूढाव् अवाञ्चौ
जिघत्सतः पितरं मातरं च ।
तौ दन्तौ ब्रह्मणा ब्रह्मणस्पते
शिवौ कृणु त्वम् इह जातवेदः ॥
सर्वाष् टीकाः ...{Loading}...
१० व्रीहिम् अत्तं यवम्
विश्वास-प्रस्तुतिः ...{Loading}...
व्रीहिम् अत्तं यवम् अत्तं
माषम् अत्तम् अथो तिलम् ।
स वां भागो निहितो रत्नधेयं
मा हिंसिष्टं पितरं मातरं च ॥
मूलम् ...{Loading}...
मूलम् (GR)
व्रीहिम् अत्तं यवम् अत्तं
माषम् अत्तम् अथो तिलम् ।
स वां भागो निहितो रत्नधेयं
मा हिंसिष्टं पितरं मातरं च ॥
सर्वाष् टीकाः ...{Loading}...
११ अघोरौ सयुजा संविदानौ
विश्वास-प्रस्तुतिः ...{Loading}...
अघोरौ सयुजा संविदानौ
स्योनौ दन्तौ सुमङ्गलौ ।
मा हिंसिष्टं पितरं मातरं च-
-अन्यत्र वां तन्वो घोरम् अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अघोरौ सयुजा संविदानौ
स्योनौ दन्तौ सुमङ्गलौ ।
मा हिंसिष्टं पितरं मातरं च-
-अन्यत्र वां तन्वो घोरम् अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
१२ एना युताम् इन्द्राग्नी
विश्वास-प्रस्तुतिः ...{Loading}...
एना युताम् इन्द्राग्नी
राज्ञा सोमेन मेदिना ।
इन्द्रो मरुत्वान् आदानम्
अमित्रेभ्यः कृणोतु मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
एना युताम् इन्द्राग्नी
राज्ञा सोमेन मेदिना ।
इन्द्रो मरुत्वान् आदानम्
अमित्रेभ्यः कृणोतु मे ॥
सर्वाष् टीकाः ...{Loading}...
१३ इदम् आदानम् अकरम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदम् आदानम् अकरं
तपसेन्द्रेण संशितम् ।
अमित्रा यत्र सन्ति मे +++(Bhatt. yatra (⟨ ye ’tra))+++
तान् आदां द्विषतो मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदम् आदानम् अकरं
तपसेन्द्रेण संशितम् ।
अमित्रा यत्र सन्ति मे +++(Bhatt. yatra (⟨ ye ’tra))+++
तान् आदां द्विषतो मम ॥
सर्वाष् टीकाः ...{Loading}...
१४ आदानेन सन्दानेन अमित्रान्
विश्वास-प्रस्तुतिः ...{Loading}...
आदानेन संदानेन-
-अमित्रान् सं द्यामसि ।
अपाना ये चैषां प्राणा
असुनासून् सम् अच्छिदम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आदानेन संदानेन-
-अमित्रान् सं द्यामसि ।
अपाना ये चैषां प्राणा
असुनासून् सम् अच्छिदम् ॥
सर्वाष् टीकाः ...{Loading}...
१५ प्रतूर्ताय मरुत्वते स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतूर्ताय मरुत्वते स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतूर्ताय मरुत्वते स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१६ जयद्वीरायाभिषत्वने स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
जयद्वीरायाभिषत्वने स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
जयद्वीरायाभिषत्वने स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१७ बृहस्पतये विश्वदेवावते स्वाहा
विश्वास-प्रस्तुतिः ...{Loading}...
बृहस्पतये विश्वदेवावते स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहस्पतये विश्वदेवावते स्वाहा ॥