सर्वाष् टीकाः ...{Loading}...
०१ आ वद बहुलम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ वद बहुलं गोष्ठं
सुवीरं बहुपूरुषम् ।
यथेतो न प्रमीयाता
एवा मे गोष्ठम् आ वद ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ वद बहुलं गोष्ठं
सुवीरं बहुपूरुषम् ।
यथेतो न प्रमीयाता
एवा मे गोष्ठम् आ वद ॥
सर्वाष् टीकाः ...{Loading}...
०२ आ वद दुहितुष्
विश्वास-प्रस्तुतिः ...{Loading}...
आ वद दुहितुष् पते
भ्रातुर् जामातर् आ वद ।
पश्चा त उद्भूतः स्फिगः
किष्किन्धानाम् अवीर् जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ वद दुहितुष् पते
भ्रातुर् जामातर् आ वद ।
पश्चा त उद्भूतः स्फिगः
किष्किन्धानाम् अवीर् जहि ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् उलूको वदति
विश्वास-प्रस्तुतिः ...{Loading}...
यद् उलूको वदति मोघम् एतद्
यत् कपोतः पदम् अग्नौ कृणोति ।
श्रुतकर्णाय कवये स्तोम्याय
तस्मै यमाय नमो अस्त्व् अद्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् उलूको वदति मोघम् एतद्
यत् कपोतः पदम् अग्नौ कृणोति ।
श्रुतकर्णाय कवये स्तोम्याय
तस्मै यमाय नमो अस्त्व् अद्य ॥
सर्वाष् टीकाः ...{Loading}...
०४ य ऐन्द्राः पाशा
विश्वास-प्रस्तुतिः ...{Loading}...
य ऐन्द्राः पाशा ये च वारुणा
आरे अस्मत् तान् देवी निरृतिर् दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
य ऐन्द्राः पाशा ये च वारुणा
आरे अस्मत् तान् देवी निरृतिर् दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०५ ये वैश्वानराः पाशा
विश्वास-प्रस्तुतिः ...{Loading}...
ये वैश्वानराः पाशा ये च मारुता
आरे अस्मत् तान् देवी निरृतिर् दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये वैश्वानराः पाशा ये च मारुता
आरे अस्मत् तान् देवी निरृतिर् दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०६ ये वैश्वदेवाः पाशा
विश्वास-प्रस्तुतिः ...{Loading}...
ये वैश्वदेवाः पाशा ये च वैश्वकर्मणा
आरे अस्मत् तान् देवी निरृतिर् दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये वैश्वदेवाः पाशा ये च वैश्वकर्मणा
आरे अस्मत् तान् देवी निरृतिर् दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०७ नारदे कितवे वरुणे
विश्वास-प्रस्तुतिः ...{Loading}...
नारदे कितवे वरुणे सोम
ऐच्छन् महिमानं महान्तम् ।
अविन्दत् तं विश्वकर्मा समुद्रे
अक्षाणां क्लन्दम् ऐनम् अस्मिन् दधामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
नारदे कितवे वरुणे सोम
ऐच्छन् महिमानं महान्तम् ।
अविन्दत् तं विश्वकर्मा समुद्रे
अक्षाणां क्लन्दम् ऐनम् अस्मिन् दधामि ॥
सर्वाष् टीकाः ...{Loading}...
०८ यद् धस्तयोर् यच्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् धस्तयोर् यच् चक्षुषोर्
मनो यत् प्रविवेश ते ।
स्कन्दान् अस्य प्रस्कन्देन
क्लन्देन क्लन्दयामि तत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् धस्तयोर् यच् चक्षुषोर्
मनो यत् प्रविवेश ते ।
स्कन्दान् अस्य प्रस्कन्देन
क्लन्देन क्लन्दयामि तत् ॥
सर्वाष् टीकाः ...{Loading}...
०९ तिस्रो देवीर् अप्सरस
विश्वास-प्रस्तुतिः ...{Loading}...
तिस्रो देवीर् अप्सरस आकैका साकैका प्रेतप्रयाम् एत्य् एकस्या नाम ।
जुषाणा अप्सरस आज्यस्य सहसो व्यन्तु स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
तिस्रो देवीर् अप्सरस आकैका साकैका प्रेतप्रयाम् एत्य् एकस्या नाम ।
जुषाणा अप्सरस आज्यस्य सहसो व्यन्तु स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१० अत्याक्षं त्वा मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
अत्याक्षं त्वा मनसा- (Bhatt. manasā atyak-)
-अत्याक्षं हृदयेन त्वा ।
अत्याक्षं सर्वैर् अङ्गैस् त्वा
तथा हि त्यजनं कृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अत्याक्षं त्वा मनसा- (Bhatt. manasā atyak-)
-अत्याक्षं हृदयेन त्वा ।
अत्याक्षं सर्वैर् अङ्गैस् त्वा
तथा हि त्यजनं कृतम् ॥
सर्वाष् टीकाः ...{Loading}...
११ इमा याः प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
इमा याः प्रति नन्दथ
स्त्रियः पुमांसम् अन्वितम् ।
सर्वाः संगत्य ब्रूत
तेजने त्यजनं कृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमा याः प्रति नन्दथ
स्त्रियः पुमांसम् अन्वितम् ।
सर्वाः संगत्य ब्रूत
तेजने त्यजनं कृतम् ॥
सर्वाष् टीकाः ...{Loading}...
१२ त्यजनं मे द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
त्यजनं मे द्यावापृथिवी अधातां
त्यजनं देवः सविता बृहस्पतिः ।
अग्निश् च तुभ्यं सूर्यश् च
तेजने त्यजनं कृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्यजनं मे द्यावापृथिवी अधातां
त्यजनं देवः सविता बृहस्पतिः ।
अग्निश् च तुभ्यं सूर्यश् च
तेजने त्यजनं कृतम् ॥
सर्वाष् टीकाः ...{Loading}...
१३ सं दिवः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
सं दिवः सं पृथिव्याः
सं वातात् सं नदीभ्यः ।
संस्कन्दम् इन्द्र आभरत्
स आगात् सो ऽगाद् इदम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं दिवः सं पृथिव्याः
सं वातात् सं नदीभ्यः ।
संस्कन्दम् इन्द्र आभरत्
स आगात् सो ऽगाद् इदम् ॥
सर्वाष् टीकाः ...{Loading}...
१४ संस्कन्दम् ओज ओजसा
विश्वास-प्रस्तुतिः ...{Loading}...
संस्कन्दम् ओज ओजसा
देवेभिर् नाम ते हितम् ।
हिरण्यनाम नाम ते (Bhatt. iraṇyaṃ nāma)
संस्कन्दास्य् ओषधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
संस्कन्दम् ओज ओजसा
देवेभिर् नाम ते हितम् ।
हिरण्यनाम नाम ते (Bhatt. iraṇyaṃ nāma)
संस्कन्दास्य् ओषधे ॥
सर्वाष् टीकाः ...{Loading}...
१५ सं समुद्रो नदीभिः
विश्वास-प्रस्तुतिः ...{Loading}...
सं समुद्रो नदीभिः
सं द्यावापृथिवी उभे ।
सं जाया पत्या योन्यां
संस्कन्दास्य् ओषधे ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं समुद्रो नदीभिः
सं द्यावापृथिवी उभे ।
सं जाया पत्या योन्यां
संस्कन्दास्य् ओषधे ॥
सर्वाष् टीकाः ...{Loading}...
१६ सं ते शीर्ष्णः
विश्वास-प्रस्तुतिः ...{Loading}...
सं ते शीर्ष्णः कपालानि
सं योनिं संगवीन्यौ ।
सं ते सर्वाण्य् अङ्गानि
सं स्कन्देनाभि दध्मसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं ते शीर्ष्णः कपालानि
सं योनिं संगवीन्यौ ।
सं ते सर्वाण्य् अङ्गानि
सं स्कन्देनाभि दध्मसि ॥
सर्वाष् टीकाः ...{Loading}...
१७ श्रियं धातुर् मयि
विश्वास-प्रस्तुतिः ...{Loading}...
श्रियं धातुर् मयि धेहि (Bhatt. dhātar)
श्रिया माधिपतिं कृणु ।
विशाम् ईशानो मघवान्
इन्द्रो मा यशसा नयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
श्रियं धातुर् मयि धेहि (Bhatt. dhātar)
श्रिया माधिपतिं कृणु ।
विशाम् ईशानो मघवान्
इन्द्रो मा यशसा नयत् ॥
सर्वाष् टीकाः ...{Loading}...
१८ मयि त्यद् इन्द्रियम्
विश्वास-प्रस्तुतिः ...{Loading}...
मयि त्यद् इन्द्रियं बृहन्
मयि दक्ष उत क्रतुः ।
घर्मस् त्रिश् चिद् वि भातु मा
गायत्रीच्छन्दसा विराड्ज्योतिषा
तस्य दोहम् अशीय ॥ (Bhatt. tasyād, cf. VSM 38.28b tásya dóham aśīmahi)
मूलम् ...{Loading}...
मूलम् (GR)
मयि त्यद् इन्द्रियं बृहन्
मयि दक्ष उत क्रतुः ।
घर्मस् त्रिश् चिद् वि भातु मा
गायत्रीच्छन्दसा विराड्ज्योतिषा
तस्य दोहम् अशीय ॥ (Bhatt. tasyād, cf. VSM 38.28b tásya dóham aśīmahi)
सर्वाष् टीकाः ...{Loading}...
१९ अर्कासधस्थौ कविमातरिश्वानौ यमाङ्गिरसः
विश्वास-प्रस्तुतिः ...{Loading}...
अर्कासधस्थौ कविमातरिश्वानौ यमाङ्गिरसः ।
यशस्विनं मा देवा यशसः कृणुत स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अर्कासधस्थौ कविमातरिश्वानौ यमाङ्गिरसः ।
यशस्विनं मा देवा यशसः कृणुत स्वाहा ॥