०४७

सर्वाष् टीकाः ...{Loading}...

०१ य आखो यो

विश्वास-प्रस्तुतिः ...{Loading}...

य आखो यो व्युखो
वीणवाꣳ इह सर्पति ।
तं परि परिभेषजं
वृश्चिकजम्भनम् असि ॥

०२ मयूरो अत्ति वृश्चिकम्

विश्वास-प्रस्तुतिः ...{Loading}...

मयूरो अत्ति वृश्चिकं
मयूरं वयम् अद्मसि ।
तं परि परिभेषजं
वृश्चिकजम्भनम् असि ॥

०३ आप इद् वा

विश्वास-प्रस्तुतिः ...{Loading}...

आप इद् वा उ भेषजीर्
आपो अमीवचातनीः ।
आपो विश्वस्य भेषजीर्
आपो वृश्चिकजम्भनीः ॥

०४ त्वम् अग्ने व्रतपा

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् अग्ने व्रतपा असि
देव आ मर्त्येष्व् आ ।
त्वं यज्ञेष्व् ईड्यः ॥

०५ यद् वो वयम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वो वयं प्रमिनाम व्रतानि
विदुषां देवा अविदुष्टरासः ।
अग्निष् टद् विश्वाद् आ पृणातु विद्वान्
सोमस्य यो ब्राह्मणाꣳ आविवेश ॥

०६ आ देवानाम् अपि

विश्वास-प्रस्तुतिः ...{Loading}...

आ देवानाम् अपि पन्थाम् अगन्म
यच् छक्नवाम तद् अनु प्रवोधुम् ।
अग्निर् विद्वान् स यजात् स इद् धोता
सो अध्वरं स ऋतून् कल्पयाति ॥

०७ उत् तुदा इ

विश्वास-प्रस्तुतिः ...{Loading}...

उत् तुदा इ शिमिद्वतीं
वि दुर्योणा इव दुपदा इ ।
उद् अस्याः पातया मनः
शश्वतीभ्यः समाभ्यः ॥

०८ पक्वं मांसम् इवासिना

विश्वास-प्रस्तुतिः ...{Loading}...

पक्वं मांसम् इवासिना
शकुनिप्रपतनां कृधि ।
मृगाꣳ अनु प्र पातय
मरीचीर् अनु नाशय ॥

०९ विष्वञ्चौ गावाव् आ

विश्वास-प्रस्तुतिः ...{Loading}...

विष्वञ्चौ गावाव् आ कुरु
विष्वञ्चौ युग्या उत ।
उतासौ सूर्य ऊर्ध्वं
विष्वञ्चौ वां व्य् आ करत् ॥

१० विषम् उग्रं विषम्

विश्वास-प्रस्तुतिः ...{Loading}...

विषम् उग्रं विषं स्थिरं
विषस्य महिमा महान् ।
विषं परस्वतः शिरः
शतधा व्य् अपातयत् ॥

११ सं दह व्रजम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं दह व्रजं यथा
वसुधा वसु वर्तयत् ।
यं विष प्रसर्पसि
सम् अग्निर् इव तं दह ॥

१२ गृहाण मांसान्य् अव

विश्वास-प्रस्तुतिः ...{Loading}...

गृहाण मांसान्य्
अव लोमानि पातय ।
पांशून् कृकाट आ वापाच् छिन्ध्य्
उत्तानपादम् अर्दय ॥

१३ मधोर् अहं मधुतरो

विश्वास-प्रस्तुतिः ...{Loading}...

मधोर् अहं मधुतरो
मधुघान् मधुमत्तरः । (Bhatt. -mattarā(⟨ raḥ))
आसनि किल मे मधु
मुखे निमन्दनं कृतम् ॥

१४ माम् इत् त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

माम् इत् त्वम् अभि चाकशो
मृगस् तृष्यन्न् इवोदकम् ।
अधस्पदान् म उद् वदान्
मण्डूको गोशफाद् इव ॥

१५ उद् वदा मे

विश्वास-प्रस्तुतिः ...{Loading}...

उद् वदा मे अधस्पदान्
मण्डूको गोशफाद् इव ।
अथो ऽप चक्रा आसासै
श्वा बन्ध इवाहतः ॥