०४६

सर्वाष् टीकाः ...{Loading}...

०१ ध्रुवो ऽसि धरुणो

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवो ऽसि धरुणो ऽस्तृतो
विश्वकर्मणा सुधृतः ।
मा त्वा समुद्र उद् वधीन् मा सुपर्णो
ऽव्यथमान इमं दृंह ॥

०२ आषाढो ऽसि सहमानः

विश्वास-प्रस्तुतिः ...{Loading}...

आषाढो ऽसि सहमानः सहस्व-
-आरातिं सहस्व पृतनायतः ।
सहस्रवीर्यो ऽसि स इमं जिन्व ॥

०३ अद्भ्यः सम्भूतो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

अद्भ्यः संभूतो ऽसि पृथिव्या रसाच् च
विश्वकर्मणः समवर्तथा अधि ।
तस्य त्वष्टा विदधद् एति रूपं
विद्वान् तत् ते देवम् आजानम् अग्रे ॥ (Bhatt. om. vidvān)

०४ षष्टिश् चाध्वर्यो नवतिश्

विश्वास-प्रस्तुतिः ...{Loading}...

षष्टिश् चाध्वर्यो नवतिश् च पाशा
होतारम् अग्निम् अन्तरा विचृत्ताः ।
सिनन्ति पाकम् अति धीर एत्य्
ऋतस्य पन्थाम् अन्व् एति विद्वान् ॥

०५ यो अध्वर्युः सप्त

विश्वास-प्रस्तुतिः ...{Loading}...

यो अध्वर्युः सप्त होत्राणि विद्वान्
पूर्वो होतुर् यजत आजिघर्ति ।
ऊर्ध्वं स यज्ञम् अध्वरं कृणोति
य ईं चिकेत हविषो विभागे ॥

०६ अत्रो विभक्तरि हविषो

विश्वास-प्रस्तुतिः ...{Loading}...

अत्रो विभक्तरि हविषो विभागे
मा निर् भाक्षीद् भागिनं मोपहत्य् ।
मो अभागो विदित यो मुमोह ॥

०७ वात आ वातु

विश्वास-प्रस्तुतिः ...{Loading}...

वात आ वातु भेषजं
शम्भु मयोभु नो हृदे ।
प्र ण आयूंषि तारिषत् ॥

०८ उत वात पितासि

विश्वास-प्रस्तुतिः ...{Loading}...

उत वात पितासि न
उत भ्रातोत नः सखा ।
स नो जीवातवे कृधि ॥

०९ यद् अदो वात

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अदो वात ते गृहे
निहितं भेषजं गुहा ।
तस्य नो देहि जीवसे ॥

१० यो न जीवो

विश्वास-प्रस्तुतिः ...{Loading}...

यो न जीवो ऽसि न मृतो
देवानाम् अमृतगर्भो ऽसि स्वप्न ।
वरुणणी ते माता यमः पिता ॥

११ यथा कलां यथा

विश्वास-प्रस्तुतिः ...{Loading}...

यथा कलां यथा शफं
यथ र्णं संनयन्ति ।
एवाह दुष्वप्न्यं सर्वम् (Bhatt. duḥsvapnyaṃ)
अप्रिये सं नयामसि ॥

१२ अररुर् नामासि तम्

विश्वास-प्रस्तुतिः ...{Loading}...

अररुर् नामासि तं त्वा स्वप्न तथा विद्म
स नः स्वप्न सुस्वप्न्यतां धेहि ॥

१३ नैतस्याग्रे हविर् अदन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

नैतस्याग्रे हविर् अदन्ति देवा
निर्भक्त एष सुकृतस्य लोकात् ।
पापीं धियं जुजुष आत्मनैष
स हि दुष्कृन् मनुष्येष्व् अन्तः ॥

१४ यो मातृहा पितृहा

विश्वास-प्रस्तुतिः ...{Loading}...

यो मातृहा पितृहा
स्वसृहा ये च दुष्कृतः ।
विधिषौ ते अमृक्षत
मलं मनुष्या इव ॥

१५ एतद् एवैतं निरर्षुर्

विश्वास-प्रस्तुतिः ...{Loading}...

एतद् एवैतं निरर्षुर् देवा
भ्रूणघ्न्या लोकम् अप्य् एत्य् एषः ।
न ते चृत्ये हविषा नाथितस्य राष्ट्रम्
एते शक्रा वि चृतन्ति पाशम् ॥