०४५

सर्वाष् टीकाः ...{Loading}...

०१ प्राग्नये वाचम् ईरय

विश्वास-प्रस्तुतिः ...{Loading}...

प्राग्नये वाचम् ईरय
वृषभाय क्षितीनाम् ।
स नः पर्षद् अति द्विषः ॥

०२ यः परस्याः परावतस्

विश्वास-प्रस्तुतिः ...{Loading}...

यः परस्याः परावतस्
तिरो विश्वाभिरोचते ।
स नः पर्षद् अति द्विषः ॥

०३ यो रक्षांसि निजूर्वत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यो रक्षांसि निजूर्वत्य्
अग्निः शुक्रेण शोचिषा ।
स नः पर्षद् अति द्विषः ॥

०४ यो विश्वाभि विपश्यति

विश्वास-प्रस्तुतिः ...{Loading}...

यो विश्वाभि विपश्यति
भुवना सं च पश्यति ।
स नः पर्षद् अति द्विषः ॥

०५ मधु वाता ऋतायते

विश्वास-प्रस्तुतिः ...{Loading}...

मधु वाता ऋतायते
मधु क्षरन्ति सिन्धवः ।
माध्वीर् गावो भवन्तु नः ॥

०६ मधु नक्तम् उतोषसो

विश्वास-प्रस्तुतिः ...{Loading}...

मधु नक्तम् उतोषसो
मधुमत् पार्थिवं रजः । (Bhatt. om. ।)
माध्वीर् नः सन्त्व् ओषधीः ॥

०७ मधुमान् नो वनस्पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

मधुमान् नो वनस्पतिर्
मधुमाꣳ अस्तु सूर्यः ।
मधु द्यौर् अस्तु नः पिता ॥

०८ आपो हि ष्ठा

विश्वास-प्रस्तुतिः ...{Loading}...

आपो हि ष्ठा मयोभुवस्
ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥

०९ यो वः शिवतमो

विश्वास-प्रस्तुतिः ...{Loading}...

यो वः शिवतमो रसस्
तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥

१० तस्मा अरङ्गमाम वो

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मा अरङ्गमाम वो
यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥

११ आयं गौः पृश्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

आयं गौः पृश्निर् अक्रमीद्
असदन् मातरं पुनः ।
पितरं च प्रयंत्स्वः ॥

१२ अस्य प्राणाद् अपानत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य प्राणाद् अपानत्य्
अन्तश् चरति रोचना ।
व्य् अख्यन् महिषो दिवम् ॥

१३ त्रिंशद् धाम वि

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिंशद् धाम वि राजति
वाक् पतङ्गाय शिश्रियत् ।
प्रति वस्तोर् अह द्युभिः ॥

१४ यच् छक्रा वाचम्

विश्वास-प्रस्तुतिः ...{Loading}...

यच् छक्रा वाचम् आरुहन्न्
अन्तरिक्षं सिषासन्तः ।
सं देवा अमदन् वृषा ॥ (Bhatt. amadaṃ (⟨ dan))

१५ शक्रो वाचम् अधिष्ठाय

विश्वास-प्रस्तुतिः ...{Loading}...

शक्रो वाचम् अधिष्ठाय-
-उरुवाचो असृष्ट हि ।
महिषा अमदन् दिवि ॥ (Bhatt. amadaṃ (⟨ dan))

१६ शक्रो वाचम् असृष्ट

विश्वास-प्रस्तुतिः ...{Loading}...

शक्रो वाचम् असृष्ट हि
धामधर्मन् वि राजति ।
विमदं बर्हिर् आ सरत् ॥ (Bhatt. vimadaṃ (⟨ dan))