०४४

सर्वाष् टीकाः ...{Loading}...

०१ स्यूता देवेभिर् अमृतैर्

विश्वास-प्रस्तुतिः ...{Loading}...

स्यूता देवेभिर् अमृतैर् न आगन्न्
उखा स्वसारम् अधि मे दिमस्थात् । (Bhatt. me (⟨ ve))
सत्यं पूर्वा ऋषयश् चाकृपाना (Bhatt. pūrvaṃ)
यज्ञपतेः सु प्र तिरन्त्व् आयुः ॥

०२ उखां स्रवन्तीम् अगदाम्

विश्वास-प्रस्तुतिः ...{Loading}...

उखां स्रवन्तीम् अगदाम् अकर्म
त्वष्टा वायुः पृथिव्य् अन्तरिक्षम् ।
यत श्चुतद् धुतम् अग्नौ तद् अस्तु
न तत् प्राप्नोति निरृतिः परस्तात् ॥

०३ अन्तर् अग्नाव् अश्चुतत्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तर् अग्नाव् अश्चुतत् स्तोक एष (Bhatt. aścuta(t))
नैनं सुवातै निरृतिः परस्तात् ।
विश्वावसोर् हविषो वावृधानो
ऽयं यज्ञः सुकृताम् एतु लोकम् ॥

०४ श्येनो ऽसि गायत्रच्छन्दा

विश्वास-प्रस्तुतिः ...{Loading}...

श्येनो ऽसि गायत्रच्छन्दा अनु त्वा रभे
स्वस्ति मा सं पारय ॥

०५ सम्राड् असि त्रिष्टुप्छन्दा

विश्वास-प्रस्तुतिः ...{Loading}...

सम्राड् असि त्रिष्टुप्छन्दा अनु त्वा रभे
स्वस्ति मा सं पारय ॥

०६ स्वरो ऽसि गयो

विश्वास-प्रस्तुतिः ...{Loading}...

स्वरो ऽसि गयो ऽसि जगच्छन्दा अनु त्वा रभे
स्वस्ति मा संपारय ॥

०७ त्रायमाणे सर्वविदे मा

विश्वास-प्रस्तुतिः ...{Loading}...

त्रायमाणे सर्वविदे मा परि देहि ।
सर्वविद् द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥

०८ सर्वविद् विश्वविदे मा

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वविद् विश्वविदे मा परि देहि ।
विश्वविद् द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥

०९ विश्ववित् कल्याण्यै मा

विश्वास-प्रस्तुतिः ...{Loading}...

विश्ववित् कल्याण्यै मा परि देहि ।
कल्याणि द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥

१० कल्याणि त्रायंआणायै मा

विश्वास-प्रस्तुतिः ...{Loading}...

कल्याणि त्रायंआणायै मा परि देहि ।
त्रायमाणे द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥

११ वि खन वि

विश्वास-प्रस्तुतिः ...{Loading}...

वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहम् आयुषा सं मयायुः ॥

१२ वि खन वि

विश्वास-प्रस्तुतिः ...{Loading}...

वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं वर्चसा सं मया वर्चः ॥

१३ वि खन वि

विश्वास-प्रस्तुतिः ...{Loading}...

वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं तेजसा सं मया तेजः ॥

१४ वि खन वि

विश्वास-प्रस्तुतिः ...{Loading}...

वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं प्रजया सं मया प्रजा ॥

१५ वि खन वि

विश्वास-प्रस्तुतिः ...{Loading}...

वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं पशुभिः सं मया पशवः ॥

१६ दिवो रेतो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो रेतो ऽसि पृथिव्या नभ्यम् ।
नभ्यम् असि नभ्यं मा कृणु ॥

१७ दिवो रेतो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो रेतो ऽसि पृथिव्याः शक्तिः ।
शक्तिर् असि शक्तये ते विधेयम् ॥

१८ दिवो रेतो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो रेतो ऽसि पृथिव्या वित्तिः ।
वित्तिर् असि वित्तये ते विधेयम् ॥

१९ दिवो रेतो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो रेतो ऽसि पृथिव्याः पुष्टिः ।
पुष्टिर् असि पुष्टये ते विधेयम् ॥

२० दिवो रेतो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो रेतो ऽसि पृथिव्या भूतिः ।
भूतिर् असि भूतये ते विधेयं
भूतिर् असि भूतासि भूयासम् ॥

२१ शुक्रो ऽसि भ्राजो

विश्वास-प्रस्तुतिः ...{Loading}...

शुक्रो ऽसि भ्राजो ऽसि ।
स यथा त्वं भ्राजतो भ्राजो ऽस्य्
एवाहं भ्राजतो भ्राज्यासम् ॥

२२ सायंसायं गृहपतिर् नो

विश्वास-प्रस्तुतिः ...{Loading}...

सायंसायं गृहपतिर् नो अग्निः
प्रातःप्रातः सौमनसस्य दाता ।
वसोर्वसोर् वसुधान एधि
वयं त्वेन्धानास् तन्वं पुषेम ॥

२३ प्रातःप्रातर् गृहपतिर् नो

विश्वास-प्रस्तुतिः ...{Loading}...

प्रातःप्रातर् गृहपतिर् नो अग्निः
सायंसायं सौमनसस्य दाता ।
वसोर्वसोर् वसुधान एधि-
-इन्धानास् त्वा शतं हिमा ऋधेम ॥

२४ यो न आविः

विश्वास-प्रस्तुतिः ...{Loading}...

यो न आविः शपति यश् च स्तायद्
यदि चित्त्या मन्युना यत् सपत्नः । (Bhatt. stāyadicityo (⟨ dyadacittyā))
अग्निष् टान् पाशान् प्र मुमोक्तु देवो
यावयतु शपथाꣳ वरुणो धृतव्रतः ॥