सर्वाष् टीकाः ...{Loading}...
०१ प्रतीकं मे विचक्षणम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतीकं मे विचक्षणम्
अक्षौ मे मधुकाशिनी ।
कर्णाभ्यां भूरिसुस्रवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतीकं मे विचक्षणम्
अक्षौ मे मधुकाशिनी ।
कर्णाभ्यां भूरिसुस्रवः ॥
सर्वाष् टीकाः ...{Loading}...
०२ जिह्वा मे मधुसंस्रावा
विश्वास-प्रस्तुतिः ...{Loading}...
जिह्वा मे मधुसंस्रावा
जिह्वा मे मधुवादिनी ।
तयाहम् अद्य जिह्वया-
-उद्यासं मधुमद् वचः ॥
मूलम् ...{Loading}...
मूलम् (GR)
जिह्वा मे मधुसंस्रावा
जिह्वा मे मधुवादिनी ।
तयाहम् अद्य जिह्वया-
-उद्यासं मधुमद् वचः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथा मधु मधुकृतः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा मधु मधुकृतः
संभरन्ति मधाव् अधि ।
एवाहम् अद्य छन्दोभिर्
उद्यासं मधुमद् वचः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा मधु मधुकृतः
संभरन्ति मधाव् अधि ।
एवाहम् अद्य छन्दोभिर्
उद्यासं मधुमद् वचः ॥
सर्वाष् टीकाः ...{Loading}...
०४ वायोः पूतः पवित्रेण
विश्वास-प्रस्तुतिः ...{Loading}...
वायोः पूतः पवित्रेण
प्रत्यक् सोमो अधिश्रितः ।
इन्द्रस्य युज्यः सखा ॥
मूलम् ...{Loading}...
मूलम् (GR)
वायोः पूतः पवित्रेण
प्रत्यक् सोमो अधिश्रितः ।
इन्द्रस्य युज्यः सखा ॥
सर्वाष् टीकाः ...{Loading}...
०५ यत् किञ् चेदम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् किञ् चेदं वरुण दैव्ये जने
अभिद्रोहं मनुष्याश् चरन्ति ।
अति चेत् तव धर्मा युयोपिम
मा नस् तस्माद् एनसो देव रीरिषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् किञ् चेदं वरुण दैव्ये जने
अभिद्रोहं मनुष्याश् चरन्ति ।
अति चेत् तव धर्मा युयोपिम
मा नस् तस्माद् एनसो देव रीरिषः ॥
सर्वाष् टीकाः ...{Loading}...
०६ आपो अस्मान् मातरः
विश्वास-प्रस्तुतिः ...{Loading}...
आपो अस्मान् मातरः सूदयन्तु
घृतेन नो घृतपवः पुनन्तु । (Bhatt. pava (⟨ puvaḥ))
विश्वं हि रिप्रं प्रवहन्ति देवीर्
उद् इद् आभ्यः शुचिर् आ पूत एमि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपो अस्मान् मातरः सूदयन्तु
घृतेन नो घृतपवः पुनन्तु । (Bhatt. pava (⟨ puvaḥ))
विश्वं हि रिप्रं प्रवहन्ति देवीर्
उद् इद् आभ्यः शुचिर् आ पूत एमि ॥
सर्वाष् टीकाः ...{Loading}...
०७ मित्रश् च सम्राड्
विश्वास-प्रस्तुतिः ...{Loading}...
मित्रश् च सम्राड् वरुणश् च राजा
तौ ते भक्षं कृणुतां प्रातर् अग्ने ।
तयोर् अहम् अनु भक्षं कृणोमि
सूर्यवर्चा भग भक्तो न आ विश ॥
मूलम् ...{Loading}...
मूलम् (GR)
मित्रश् च सम्राड् वरुणश् च राजा
तौ ते भक्षं कृणुतां प्रातर् अग्ने ।
तयोर् अहम् अनु भक्षं कृणोमि
सूर्यवर्चा भग भक्तो न आ विश ॥
सर्वाष् टीकाः ...{Loading}...
०८ सूर्यवर्चा न आ
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यवर्चा न आ विश
विश्वविन् मनसस् पतिः ।
अनेहा सोम जागृविर्
इन्द्रः प्रीत स्तुतो नृभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्यवर्चा न आ विश
विश्वविन् मनसस् पतिः ।
अनेहा सोम जागृविर्
इन्द्रः प्रीत स्तुतो नृभिः ॥
सर्वाष् टीकाः ...{Loading}...
०९ इन्द्र प्रीतस्य ते
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र प्रीतस्य ते वयं
शुक्रस्य रोचनावतः ।
भक्षीमहि प्रजाम् इषं
साहस्रस्य यशस्विनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्र प्रीतस्य ते वयं
शुक्रस्य रोचनावतः ।
भक्षीमहि प्रजाम् इषं
साहस्रस्य यशस्विनः ॥
सर्वाष् टीकाः ...{Loading}...
१० अग्निः प्रातःसवने पात्व्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निः प्रातःसवने पात्व् अस्मान्
वैश्वानरः पथिकृद् विश्वकृष्टिः ।
स नः पावको द्रविणे दधात्य्
आयुष्मन्तः सहभक्षाः स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निः प्रातःसवने पात्व् अस्मान्
वैश्वानरः पथिकृद् विश्वकृष्टिः ।
स नः पावको द्रविणे दधात्य्
आयुष्मन्तः सहभक्षाः स्याम ॥
सर्वाष् टीकाः ...{Loading}...
११ विश्वे देवा मरुत
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वे देवा मरुत इन्द्रो अस्मान्
अस्मिन् द्वितीये सवने न जह्युः ।
आयुष्मन्तः प्रियम् एषां वदन्तो
वयं देवानां सुमतौ स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वे देवा मरुत इन्द्रो अस्मान्
अस्मिन् द्वितीये सवने न जह्युः ।
आयुष्मन्तः प्रियम् एषां वदन्तो
वयं देवानां सुमतौ स्याम ॥
सर्वाष् टीकाः ...{Loading}...
१२ इदं तृतीयं सवनम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं तृतीयं सवनं कवीनाम्
ऋतेन यच् चमसं समैरयन् ।
सौधन्वना अमृतम् आनशानाः
स्विष्टिन् नो अभि वस्यो नयाथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं तृतीयं सवनं कवीनाम्
ऋतेन यच् चमसं समैरयन् ।
सौधन्वना अमृतम् आनशानाः
स्विष्टिन् नो अभि वस्यो नयाथ ॥
सर्वाष् टीकाः ...{Loading}...
१३ सं सं स्रवन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
सं सं स्रवन्तु नद्यः
सं वाताः सं पतत्रिणः ।
यज्ञम् इमं वर्धयता गिरः
संस्राव्येण हविषा जुहोमि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं सं स्रवन्तु नद्यः
सं वाताः सं पतत्रिणः ।
यज्ञम् इमं वर्धयता गिरः
संस्राव्येण हविषा जुहोमि ॥
सर्वाष् टीकाः ...{Loading}...
१४ इमं होमा यज्ञम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमं होमा यज्ञम् अवत-
-इमं संस्रावणा उत ।
यज्ञम् इमं वर्धयता गिरः
संस्राव्येण हविषा जुहोमि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं होमा यज्ञम् अवत-
-इमं संस्रावणा उत ।
यज्ञम् इमं वर्धयता गिरः
संस्राव्येण हविषा जुहोमि ॥
सर्वाष् टीकाः ...{Loading}...
१५ रूपंरूपं वयोवयः संरभ्यैनम्
विश्वास-प्रस्तुतिः ...{Loading}...
रूपंरूपं वयोवयः
संरभ्यैनं परि ष्वजे ।
यज्ञम् इमं चतस्रः प्रदिशो वर्धयन्तु
संस्राव्येण हविषा जुहोमि ॥
मूलम् ...{Loading}...
मूलम् (GR)
रूपंरूपं वयोवयः
संरभ्यैनं परि ष्वजे ।
यज्ञम् इमं चतस्रः प्रदिशो वर्धयन्तु
संस्राव्येण हविषा जुहोमि ॥