०४२

सर्वाष् टीकाः ...{Loading}...

०१ अपदस्वद् अपादसत् तुण्डिव्यध्मापादसत्

विश्वास-प्रस्तुतिः ...{Loading}...

अपदस्वद् अपादसत्
तुण्डिव्यध्मापादसत् ।
अपापचिद् इतो ऽदसद्
अपेतो ग्लौर् नशिष्यत्य्
अपिव्यध्मन् नशिष्यति ॥

०२ मा शिले मा

विश्वास-प्रस्तुतिः ...{Loading}...

मा शिले मा शिलावति
मा ते शेषि शिलं चन ।
यावच् छिलस्य ते शिलं
तावच् छेषः शिलं तव ॥ (Bhatt. tāvacchṣa(⟨ ṣaṃ))

०३ यथा यूपाग्राद् उदकम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा यूपाग्राद् उदकं
विनिष्टं भूमिम् अश्नुते ।
एवा त्वम् अरसे शिले
विनिष्टा भूमिम् अश्नुहि ॥

०४ वज्रो ऽसि सपत्नहा

विश्वास-प्रस्तुतिः ...{Loading}...

वज्रो ऽसि सपत्नहा
त्वयाद्य वृत्रं साक्षीय ।
त्वाम् अद्य वनस्पते
वृक्षाणाम् उद् अयुष्महि ॥

०५ स न इन्द्र

विश्वास-प्रस्तुतिः ...{Loading}...

स न इन्द्र पुरोहितो
विश्वतस् पाहि रक्षसः ।
अभि गावो अनूषत-
-अभि द्युम्नं बृहस्पते ॥

०६ प्राण प्राणं त्रायस्व

विश्वास-प्रस्तुतिः ...{Loading}...

प्राण प्राणं त्रायस्व-
-असो असवे मृड ।
निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥

०७ हत्सुके परि णो

विश्वास-प्रस्तुतिः ...{Loading}...

हत्सुके परि णो नम (Bhatt. ⟨ ṛcchuke?)
पारिगं तन्वे कृधि ।
युयुत पर्णिनं शरम् (see 2.70.5c; Bhatt. yuyut (⟨ yūyuvat))
उतापर्णं रिशाद् इति ॥

०८ प्रजापतिष् ट्वा प्रजया

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिष् ट्वा प्रजया
सं पुत्रेण सृजतु सं भगेन ।
दिष्टं देष्टीह कामो ब्राह्मणस्य
पुमांसं धत्स्व सवितुः सवेन ॥

०९ प्र त्वा सर्पत्व्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र त्वा सर्पत्व् अङ्कतः
कुमारः पुरुषाद् अधि ।
ऋतोर् यम् ऋत्वियाद् अधि
यं ते धाता अचीक्ल्̥पत् ॥

१० यं ते धाता

विश्वास-प्रस्तुतिः ...{Loading}...

यं ते धाता यं ते त्वष्टा
यं ते ब्रह्माचीक्ल्̥पत् ।
तं त्वं पुत्रं विन्दस्व
तस्मै त्वं जीव जीवसे ॥

११ ध्वस्रास् तिष्ठन्ति रजसा

विश्वास-प्रस्तुतिः ...{Loading}...

ध्वस्रास् तिष्ठन्ति रजसा समक्ता
यज्ञस्य होत्राः प्रुशितासो अश्नाः ।
आसां सोमस्य यद् इहावयन्ति
तद् अमूत्र यजमानस्य रूपम् ॥

१२ ये ब्राह्मणं वर्चो

विश्वास-प्रस्तुतिः ...{Loading}...

ये ब्राह्मणं वर्चो हित्वाय मल्वा
रेणो वर्णेन परिधापयन्ति । (Bhatt. (ā)reṇo; read reṇor?)
आसां सोमस्य यद् इहावयन्ति
तद् अमूत्र यजमानस्य रूपम् ॥

१३ असारथिः सुमनसो यथा

विश्वास-प्रस्तुतिः ...{Loading}...

असारथिः सुमनसो यथा रथो
हित्वा सव्यष्ठां रक्षसो याति यामम् ।
एवा यज्ञो यजमानं जहाति
यत्र सोम्यं सोमपीथान् नयन्ति ॥

१४ छन्दांसि तद् यजमानस्य

विश्वास-प्रस्तुतिः ...{Loading}...

छन्दांसि तद् यजमानस्य यन्ति
यत्र सोम्यं सोमपीथान् नयन्ति ।
अब्राह्मणो यत् पिबति सोमम् अस्य
तद् वै छिद्रं दक्षिणयापिधेयम् ॥

१५ ऽब्रध्नो ऽसि वाजी

विश्वास-प्रस्तुतिः ...{Loading}...

ऽब्रध्नो ऽसि वाजी परिपानी
प्रथमा देवेभ्यस् पर्याभृता ।
मा ते रिषं खनिता
यस्मै च त्वा खनामसि ॥

१६ मा देवाः पापम्

विश्वास-प्रस्तुतिः ...{Loading}...

मा देवाः पापम् आराम
मा कर्त पापयामुया । (Bhatt. (⟨ kartaṃ?))
माहं परिष्यजो हस्तम्
आ रप्सि धनकाम्या ॥

१७ मा मा देवाः

विश्वास-प्रस्तुतिः ...{Loading}...

मा मा देवाः परा दात
मा मा कर्त व्याध्यम् ।
माहं परिष्वजः शिर
आ रप्सि मो अहं मृषि ॥