०४१

सर्वाष् टीकाः ...{Loading}...

०१ सोमस्य प्राणः पवते

विश्वास-प्रस्तुतिः ...{Loading}...

सोमस्य प्राणः पवते पुरस्ताद्
दक्षिणत ऐन्द्र आ वातु वातः ।
अस्य दिशो मातुरो या प्रतीची
स नो देवाः शिवो अस्त्व् इह वातः ॥

०२ मित्रस्य प्राणः पवते

विश्वास-प्रस्तुतिः ...{Loading}...

मित्रस्य प्राणः पवते य उत्तराद्
बृहस्पतेर् ऊर्ध्व उद् वातु वातः ।
यो अन्तरिक्षम् अनु वाति विद्वान्
स नो देवः शिवो अस्त्व् इह वातः ॥

०३ य उत्तरात् पवते

विश्वास-प्रस्तुतिः ...{Loading}...

य उत्तरात् पवते यः पुरस्ताद्
यो दक्षिणात् पवते यश् च पश्चात् ।
ऊर्ध्वाꣳ उद्देशाꣳ अनु यः प्रवाति
स नो देवः शिवो अस्त्व् इह वातः ॥

०४ त्रीण्य् अन्तरिक्षाण्य् अनु

विश्वास-प्रस्तुतिः ...{Loading}...

त्रीण्य् अन्तरिक्षाण्य् अनु वासि
वात तिस्रो वासि परावतः ।
सहस्राक्षौ वृत्रहा पाह्य्
अर्वाङ् विनुदं क्षेत्रियं रपः ॥

०५ न तत्र दारः

विश्वास-प्रस्तुतिः ...{Loading}...

न तत्र दारः कृपणं ससार
न प्रतिघ्नाना रुदती न बिभ्रती ।
इन्द्रो नो यत्रोरुकृद् विचक्षणः
स नो *ऽज्यानि महतीं नि यच्छात् ॥

०६ इन्द्रः सेनां मोहयतु

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रः सेनां मोहयतु
मरुतो घ्नन्त्व् ओजसा ।
अग्नेर् वातस्य ध्राज्या
तान् विषूचो वि नाशय ॥

०७ न द्यौर् एषाम्

विश्वास-प्रस्तुतिः ...{Loading}...

न द्यौर् एषां न पृथिवी
नादितिर् न धनंजया । (Bhatt. ni(⟨ na))
चक्षूंष्य् अग्निर् आ धत्तां
पुनर् यन्तु पराजिताः ॥

०८ अमित्राणां दरय ग्रामम्

विश्वास-प्रस्तुतिः ...{Loading}...

अमित्राणां दरय ग्रामम् इन्द्र
यो नः शत्रुर् अभ्येति जिघांसन् ।
यथैषाम् इन्द्रनुत्तानाम्
अग्निना वेशो अनु वर्तयानि मे ॥ (Bhatt. (⟨ viśo?))

०९ जिह्मं युगं कृण्वताम्

विश्वास-प्रस्तुतिः ...{Loading}...

जिह्मं युगं कृण्वताम् इन्द्रनुत्ताः
पराचीनैः पथिभिर् यन्तु रिष्यन्तः । (Bhatt. yanta(⟨ ntu))
तञ् जयन्तो अन्व् आसदेम-
-अग्निना वेशो अनु वर्तयन्तः ॥

१० अमित्राणां ग्रामम् उपयुक्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

अमित्राणां ग्रामम् उपयुक्तम्
इन्द्रेण नुत्तं वि रदात्य् अग्निः ।
सत्वानः सन्त्व् अनुमाद्या इमे
येभ्यश् चरामि हविषा घृतेन ॥

११ अर्यमणं हि देवम्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्यमणं हि देवं भद्रं
कन्या यम् अयक्षत ।
स एना वृत्रहा देव
इतो मुञ्चातु मामुतः ॥

१२ इयं ते राजन्

विश्वास-प्रस्तुतिः ...{Loading}...

इयं ते राजन् वरुण
जामिका कृणुते हविः ।
तस्यै पतिं न्य् आ वह
सुभद्रं प्रतिकाम्यम् ॥

१३ आ क्रन्दय धनपते

विश्वास-प्रस्तुतिः ...{Loading}...

आ क्रन्दय धनपते
वरम् आमनसं कृणु ।
सर्वं प्रदक्षिणं कृधि
पतिम् अस्यै प्रतिकाम्यम् ॥

१४ आ पश्चाद् आ

विश्वास-प्रस्तुतिः ...{Loading}...

आ पश्चाद् आ पुरस्ताद्
ओत्तराद् अधराद् उत ।
पूर्णा भगस्य वर्तनिस्
तेनेमाम् अभि वर्तयामसि
वर्चसा च भगेन च ॥

१५ नासृग् अस्ति पतङ्गस्य

विश्वास-प्रस्तुतिः ...{Loading}...

नासृग् अस्ति पतङ्गस्य
तर्दस्य मशकद्याः ।
न संपतत्रम् उद्युगो (Bhatt. om. na)
न्यग् ग्लौर् अत्र भविष्यति ॥ (K nyaṃ glau tatra; Bhatt. na glaur atra)

१६ अपदस्वद् अपादसत् तुण्डिव्यध्मापादसत्

विश्वास-प्रस्तुतिः ...{Loading}...

अपदस्वद् अपादसत्
तुण्डिव्यध्मापादसत् ।
अपापचिद् इतो ऽदसद्
अपेतो ग्लौर् नशिष्यत्य्
अपिव्यध्मन् नशिष्यति ॥

१७ यथा सूर्यश् चन्द्रमसम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सूर्यश् चन्द्रमसम्
उद्यन्न् एवापगूहति ।
एवा त्वम् उग्र ओषध
इमां ग्लावम् अपगूहताद् इतः ॥