०४०

सर्वाष् टीकाः ...{Loading}...

०१ नाशय पलितं शीर्ष्णो

विश्वास-प्रस्तुतिः ...{Loading}...

नाशय पलितं शीर्ष्णो
यः कृष्णस् तन् न आ भर ।
तम् ओषधे त्वं वर्धय
केशं कृष्णतरं कृधि ॥

०२ यथाञ्जनं तथाससि यथा

विश्वास-प्रस्तुतिः ...{Loading}...

यथाञ्जनं तथाससि
यथा त्रैककुदं तथा ।
तत् संभवात् तत् सभस् ते (Bhatt. (⟨ tastabhus te))
व्युच्छन्तीर् अनूषसः ॥

०३ यत्रास्ति यत्र तिष्ठति

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रास्ति यत्र तिष्ठति
यतो नश्यत्वासिनम् । (Bhatt. naśyatvā(⟨ tyā)sina(⟨ ta)m)
दिव्यः सुपर्णो अब्रवीद्
एतत् पलितभेषजम् ॥

०४ दिवो नु मा

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो नु मा बृहतो अन्तरिक्षाद्
अपां स्तोको अभ्य् अपप्तद् रसाय ।
सम् इन्द्रियेण पयसाहम् अग्ने (Bhatt. agni(⟨ gne))
ऋषीणां यज्ञैः सुकृतां कृतेन ॥

०५ यदि वृक्षाद् अभ्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि वृक्षाद् अभ्य् अपप्तत् फलं तद्
यद्य् अन्तरिक्षात् तद् उ वायुर् एव ।
यत्रास्पृष्ट तन्वो यत्र वाससो
न तत् प्राप्नोति निरृतिः परस्तात् ॥

०६ अभ्यञ्जनं सुरभ्याद् उ

विश्वास-प्रस्तुतिः ...{Loading}...

अभ्यञ्जनं सुरभ्याद् उ वासश्
चन्द्रं हिरण्यम् अधि पूत्रिमं यत् ।
सर्वा पवित्रा वितताध्य् अस्मिंच्
छतं जीवाति शरदस् तवायम् ॥

०७ यः कीकसाः प्रशृणाति

विश्वास-प्रस्तुतिः ...{Loading}...

यः कीकसाः प्रशृणाति (Bhatt. kīkasā(ḥ))
तलीड्यम् उपतिष्ठति ।
परास्थं सर्वं जायान्यं
यः कश् च ककुभि श्रितः ॥

०८ पक्षी जायान्यः पतति

विश्वास-प्रस्तुतिः ...{Loading}...

पक्षी जायान्यः पतति
य आविशति पूरुषम् ।
तस्याहं वेद ते नाम (Bhatt. vaida (misprint))
यतो जायान्य जायसे ॥

०९ वेद वै ते

विश्वास-प्रस्तुतिः ...{Loading}...

वेद वै ते नाम
यतो जायान्य जायसे ।
कथं हि तत्र त्वं हन्या
यत् कुर्याम् अहं हविः ॥

१० य आस्यं प्रविशति

विश्वास-प्रस्तुतिः ...{Loading}...

य आस्यं प्रविशति
करोत्य् उदरं महत् ।
यक्ष्मो यो अत्र जायसे
तं जायान्यम् अनीनशम् ॥

११ आरोहान् मे मुखम्

विश्वास-प्रस्तुतिः ...{Loading}...

आरोहान् मे मुखं जातम्
आरोहाज् जघनं मम ।
आरोहात् सर्वा जातास्म्य् (Bhatt. jātāsmi(nn))
ऋषभस्योपयोधनात् ॥

१२ स्वादीयसी सुराया लवणाच्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वादीयसी सुराया
लवणाच् चारुमत्तरा ।
गोभ्यो वनीयसीद् अहम् ॥

१३ यां त्वा वातो

विश्वास-प्रस्तुतिः ...{Loading}...

यां त्वा वातो ऽवारयद्
आर्द्रनाभा महर्षभः ।
तस्यास् ते देवि पृथिव्या
अहं संवननं दद
आ ते शौष्कास्यं ददे ॥

१४ युक्तौ मनसा सम्

विश्वास-प्रस्तुतिः ...{Loading}...

युक्तौ मनसा सं सुरेतसा
देवेभ्यो हव्यं कृणवाव साधु ।
येषां भागस् त इदं जुषन्ताम्
अविक्षुब्धाव् उदयाव भद्रया ॥

१५ येन देवा ज्योतिषा

विश्वास-प्रस्तुतिः ...{Loading}...

येन देवा ज्योतिषा द्याम् उदायन्
येनादित्या वसवो येन रुद्राः ।
येनाङ्गिरसः स्वर् आरुरुहुस्
तेनोद् अयाव यजमानौ स्वस्ति ॥

१६ यं पपाचादितिः पुत्रकामा

विश्वास-प्रस्तुतिः ...{Loading}...

यं पपाचादितिः पुत्रकामा
येन प्रजाः कश्यपः पर्यगृह्नात् ।
य ओदनः पच्यते वैश्वदेवः
स नो यमे अक्षितो भागो अस्तु ॥