०३९

सर्वाष् टीकाः ...{Loading}...

०१ या त्रिषप्तैः पुनर्

विश्वास-प्रस्तुतिः ...{Loading}...

या त्रिषप्तैः पुनर् एति
नाना रूपाणि बिभ्रती ।
वाचस्पतिर् बला तस्या
आरे हेतिं दधातु मत् ॥

०२ वाचा नुत्ता कृत्याद्

विश्वास-प्रस्तुतिः ...{Loading}...

वाचा नुत्ता कृत्याद् इन्द्रवती (Bhatt. (⟨ diddravantī))
जाग्रता स्वपती कृता ।
नुत्ता पाकस्य शंसेन
प्रत्यक् कर्तारम् ऋच्छतु ॥

०३ यद् एतद् भूरि

विश्वास-प्रस्तुतिः ...{Loading}...

यद् एतद् भूरि स्पर्धसे
कृत्यास्मीति मन्यसे ।
प्रतीचीना परेत्य
विषाद् इव विषमद् धतः ॥

०४ परेणैत्व् अघशंसो मैनेन

विश्वास-प्रस्तुतिः ...{Loading}...

परेणैत्व् अघशंसो
मैनेन सम् अरामहि ।
द्यौश् चास्मान् पृथिवी च-
-उभे पाताम् अंहसः ॥

०५ यव यावयास्मद् द्वेषांसि

विश्वास-प्रस्तुतिः ...{Loading}...

यव यावयास्मद् द्वेषांसि
यवमयेन हविषा ।
दुर्हार्दे चक्रुषे कृत्यां
ग्रीवासु प्रति मुञ्चतम् ॥ (Bhatt. muñca ta(m))

०६ अन्या वो अन्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्या वो अन्याम् अवत्व्
अन्यान्यस्या उपावत ।
अश्वा इव प्रवल्गन्तीः
कृत्यां हतौषधयो
ऽरातिं हतौषधयः ॥

०७ मेहोप गा मोप

विश्वास-प्रस्तुतिः ...{Loading}...

मेहोप गा मोप रंस्थाः
पथां दुर्गाण्य् अन्व् इहि ।
सपत्नि नश्यताद् इतो
दूरं गच्छाध्य् ओकसः ॥

०८ यस्यास् ते नाम

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यास् ते नाम गृह्नामि
यस्मिन्न् आरमसेचने ।
आ परस्याः परावतः
सपत्नीं नाशयामसि ॥

०९ त्रिंशतं त्रींश् च

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिंशतं त्रींश् च पर्वतांश्
चतुरश् च गिरीन् अति ।
सपत्नीं ब्रह्मणस्पते
परो भ्रूणान्य् अर्पया ॥

१० उन् मादयत मरुतः

विश्वास-प्रस्तुतिः ...{Loading}...

उन् मादयत मरुतः समुद्रिया
उद् द्यावापृथिवी उभे ।
उत् त्वा समुद्र ऋषन्तु-
-उत् त्वाम् अग्निर् अयं दहात् ॥ (Bhatt. ṛṣantu(⟨ tū)ttvā-)

११ यत् सपत्नी सपत्न्या

विश्वास-प्रस्तुतिः ...{Loading}...

यत् सपत्नी सपत्न्या
अमुष्या वर्च आददे ।
अधस्ताद् उपवादिन्य्
असौ स्याद् अहम् उत्तरात् ॥

१२ आ ते बध्नाम्य्

विश्वास-प्रस्तुतिः ...{Loading}...

आ ते बध्नाम्य् ओषधिं
सपत्नीभ्यः प्रचातनीम् ।
यथा ते ऽसद् अयं पतिः
पुत्राणां ते भवत् पिता ॥

१३ यान्य् ऋणान्य् अनुवर्तान्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यान्य् ऋणान्य् अनुवर्तान्य् अस्मिन्
यमस्य येन बलिना चरामि ।
इदं तद् अग्ने अनृणो भवामि-
-इदं तद् अग्ने अवदानम् अस्तु ॥

१४ यास् ते सप्त

विश्वास-प्रस्तुतिः ...{Loading}...

यास् ते सप्त प्रवतो या उ तिस्रो
यास् ते सन्ति निवतो या अभीवतः । (Bhatt. santu(⟨ nti?))
अर्वावतो अष्टधा त्रीणि रोचना
तास् ते अग्ने संमनसो भवन्तु
जानन् यमाय नि वहा कुसीदम् ॥

१५ यास् त ऊर्ध्वास्

विश्वास-प्रस्तुतिः ...{Loading}...

यास् त ऊर्ध्वास् तन्वो जातवेदो
यास् तिरश्चीर् उत या अनूचीः ।
ताभिष् ट्वम् अग्ने सयुजा गृणानो (Bhatt. tābhiṣ ṭa(⟨ ṣṭva)m)
जानन् यमाय नि वहा कुसीदम् ॥