सर्वाष् टीकाः ...{Loading}...
०१ माभि गायः शाबलेयम्
विश्वास-प्रस्तुतिः ...{Loading}...
माभि गायः शाबलेयं
शौणेयं साधुवाहिनम् ।
नमस् ते भद्रया कृण्मो
ऽविह्वृता चक्षुषा त्वं
शमका शमयाति त्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
माभि गायः शाबलेयं
शौणेयं साधुवाहिनम् ।
नमस् ते भद्रया कृण्मो
ऽविह्वृता चक्षुषा त्वं
शमका शमयाति त्वा ॥
सर्वाष् टीकाः ...{Loading}...
०२ तृन्धि वि क्षिणीहि
विश्वास-प्रस्तुतिः ...{Loading}...
तृन्धि वि क्षिणीहि
पेशः कुर्वाणिका त्वम् ।
जारेण पत्या जक्षती
गृहान् गोपायमानिका
शमका शमयाति त्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
तृन्धि वि क्षिणीहि
पेशः कुर्वाणिका त्वम् ।
जारेण पत्या जक्षती
गृहान् गोपायमानिका
शमका शमयाति त्वा ॥
सर्वाष् टीकाः ...{Loading}...
०३ आङ्क्ष्वाभ्यङ्क्ष्व अभ्यक्ता शमनम्
विश्वास-प्रस्तुतिः ...{Loading}...
आङ्क्ष्वाभ्यङ्क्ष्व-
-अभ्यक्ता शमनं गमः ।
अथो पितृभ्यो गा इच्छ
विज्ञानेन भगेन च
शमका शमयाति त्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
आङ्क्ष्वाभ्यङ्क्ष्व-
-अभ्यक्ता शमनं गमः ।
अथो पितृभ्यो गा इच्छ
विज्ञानेन भगेन च
शमका शमयाति त्वा ॥
सर्वाष् टीकाः ...{Loading}...
०४ अपेहि मनसस् पाप
विश्वास-प्रस्तुतिः ...{Loading}...
अपेहि मनसस् पाप-
-अप क्राम परस्तरम् ।
परो निरृत्या आ चक्षुर्
बहुत्रा जीवतो मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपेहि मनसस् पाप-
-अप क्राम परस्तरम् ।
परो निरृत्या आ चक्षुर्
बहुत्रा जीवतो मनः ॥
सर्वाष् टीकाः ...{Loading}...
०५ भद्रं वै वरम्
विश्वास-प्रस्तुतिः ...{Loading}...
भद्रं वै वरं वृणते
भद्रं युञ्जन्ति दक्षिणम् ।
भद्रं वैवस्वतं चक्षुर्
बहुत्रा जीवतो मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
भद्रं वै वरं वृणते
भद्रं युञ्जन्ति दक्षिणम् ।
भद्रं वैवस्वतं चक्षुर्
बहुत्रा जीवतो मनः ॥
सर्वाष् टीकाः ...{Loading}...
०६ यन् मे छिद्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मे छिद्रं मनसो यच् च वाचः
सरस्वतीं मन्युचित्तं जगाम ।
विश्वैस् तद् देवैः सह संविदानः
सं दधातु बृहस्पतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मे छिद्रं मनसो यच् च वाचः
सरस्वतीं मन्युचित्तं जगाम ।
विश्वैस् तद् देवैः सह संविदानः
सं दधातु बृहस्पतिः ॥
सर्वाष् टीकाः ...{Loading}...
०७ स्फिरा स्फिरतरं स्फिरा
विश्वास-प्रस्तुतिः ...{Loading}...
स्फिरा स्फिरतरं
स्फिरा आत्तारः ।
शतहस्त समाहर
सहस्रहस्त सं किर ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्फिरा स्फिरतरं
स्फिरा आत्तारः ।
शतहस्त समाहर
सहस्रहस्त सं किर ॥
सर्वाष् टीकाः ...{Loading}...
०८ इहैवा किर सम्
विश्वास-प्रस्तुतिः ...{Loading}...
इहैवा किर सं किर-
-इहैव स्फातिम् अस्फिरम् ।
स्फिरेयम् अस्त्व् ओषधिः
समुद्रस्येव संस्रवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैवा किर सं किर-
-इहैव स्फातिम् अस्फिरम् ।
स्फिरेयम् अस्त्व् ओषधिः
समुद्रस्येव संस्रवः ॥
सर्वाष् टीकाः ...{Loading}...
०९ उत् तिरा आ
विश्वास-प्रस्तुतिः ...{Loading}...
उत् तिरा आ गमन्न् उप-
-उत् तिराण्यागमन् । (Bhatt. (maṃ ⟨ man))
वृष्टे शापं नदीर् इव-
-इह स्फातिं समावहान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् तिरा आ गमन्न् उप-
-उत् तिराण्यागमन् । (Bhatt. (maṃ ⟨ man))
वृष्टे शापं नदीर् इव-
-इह स्फातिं समावहान् ॥
सर्वाष् टीकाः ...{Loading}...
१० वि मयूखा आ
विश्वास-प्रस्तुतिः ...{Loading}...
वि मयूखा आ यच्छन्तु
गर्दभा इव दुर्युजः ।
मुह्यन्तु सर्वे तन्तवो
वृता नाडी वितन्त्रिके ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि मयूखा आ यच्छन्तु
गर्दभा इव दुर्युजः ।
मुह्यन्तु सर्वे तन्तवो
वृता नाडी वितन्त्रिके ॥
सर्वाष् टीकाः ...{Loading}...
११ प्र वाम् ईष्वे
विश्वास-प्रस्तुतिः ...{Loading}...
प्र वाम् ईष्वे पततां
प्र तटा प्र निवेष्टनम् ।
मुह्यन्तु सर्वे तन्तवो
अन्धे विततवाय्यौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र वाम् ईष्वे पततां
प्र तटा प्र निवेष्टनम् ।
मुह्यन्तु सर्वे तन्तवो
अन्धे विततवाय्यौ ॥
सर्वाष् टीकाः ...{Loading}...
१२ आयवनी निवेष्टनं व्रता
विश्वास-प्रस्तुतिः ...{Loading}...
आयवनी निवेष्टनं
व्रता तसरम् ईष्वे ।
मुह्यन्तु सर्वे तन्तवो
अन्धे वितत वाय्यौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयवनी निवेष्टनं
व्रता तसरम् ईष्वे ।
मुह्यन्तु सर्वे तन्तवो
अन्धे वितत वाय्यौ ॥
सर्वाष् टीकाः ...{Loading}...
१३ मयारकारी प्रथमा ऊर्णवाभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
मयारकारी प्रथमा-
-ऊर्णवाभिर् अथो शका ।
देवानां पत्नीः कृत्तिका
इमं तन्तुम् अमूमुहन् ॥ (Bhatt. amūmuhaṃ (⟨ han))
मूलम् ...{Loading}...
मूलम् (GR)
मयारकारी प्रथमा-
-ऊर्णवाभिर् अथो शका ।
देवानां पत्नीः कृत्तिका
इमं तन्तुम् अमूमुहन् ॥ (Bhatt. amūmuhaṃ (⟨ han))
सर्वाष् टीकाः ...{Loading}...
१४ अग्निर् न एतु
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निर् न एतु प्रथमः
पुरएता बृहस्पतिः ।
अधा भग प्र णो यच्छ
त्वं हि धनदा असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निर् न एतु प्रथमः
पुरएता बृहस्पतिः ।
अधा भग प्र णो यच्छ
त्वं हि धनदा असि ॥
सर्वाष् टीकाः ...{Loading}...
१५ प्र णः शूद्र
विश्वास-प्रस्तुतिः ...{Loading}...
प्र णः शूद्र उतार्यः
प्र णो राजोत वृत्रहा ।
अथो यत् सर्वम् आत्मन्वत्
प्र णो यच्छतु दक्षिणाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र णः शूद्र उतार्यः
प्र णो राजोत वृत्रहा ।
अथो यत् सर्वम् आत्मन्वत्
प्र णो यच्छतु दक्षिणाम् ॥
सर्वाष् टीकाः ...{Loading}...
१६ कविर् यज्ञस्य वि
विश्वास-प्रस्तुतिः ...{Loading}...
कविर् यज्ञस्य वि तनोषि पन्थाम्
ऋतस्य पृष्ठे अधि दीध्यानः ।
येन हव्यं वहसि देव दूत
इतः प्रचेता अमुतो वनीयान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कविर् यज्ञस्य वि तनोषि पन्थाम्
ऋतस्य पृष्ठे अधि दीध्यानः ।
येन हव्यं वहसि देव दूत
इतः प्रचेता अमुतो वनीयान् ॥
सर्वाष् टीकाः ...{Loading}...
१७ मधुहस्तो मधुजिह्वो मधुवर्णो
विश्वास-प्रस्तुतिः ...{Loading}...
मधुहस्तो मधुजिह्वो
मधुवर्णो मधुव्रतः ।
अथो मधुप्रशासनो
भगो मा वर्चसावतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधुहस्तो मधुजिह्वो
मधुवर्णो मधुव्रतः ।
अथो मधुप्रशासनो
भगो मा वर्चसावतु ॥