सर्वाष् टीकाः ...{Loading}...
०१ अभि त्वा शतपाशया
विश्वास-प्रस्तुतिः ...{Loading}...
अभि त्वा शतपाशया-
-अथो सहस्रपाशया ।
दाशो मत्स्यम् इव तीदेन
मयि बध्नामि ते मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि त्वा शतपाशया-
-अथो सहस्रपाशया ।
दाशो मत्स्यम् इव तीदेन
मयि बध्नामि ते मनः ॥
सर्वाष् टीकाः ...{Loading}...
०२ आ हि ते
विश्वास-प्रस्तुतिः ...{Loading}...
आ हि ते दक्षिणं पदं
हृदय्यं ददे ।
उपस्थे पदमोपि
नि त्वाम् अक्रि स्वे वशे ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ हि ते दक्षिणं पदं
हृदय्यं ददे ।
उपस्थे पदमोपि
नि त्वाम् अक्रि स्वे वशे ॥
सर्वाष् टीकाः ...{Loading}...
०३ परि त्वा गाम्
विश्वास-प्रस्तुतिः ...{Loading}...
परि त्वा गाम् इवासरं
मम पत्तो निपत्तवे ।
तन् मारुतं ह वैरुधम्
आवतंकरणं कृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि त्वा गाम् इवासरं
मम पत्तो निपत्तवे ।
तन् मारुतं ह वैरुधम्
आवतंकरणं कृतम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ आ नयामि ते
विश्वास-प्रस्तुतिः ...{Loading}...
आ नयामि ते मनो
अश्वम् इवाश्वाभिधान्या ।
उप ते मुञ्चे मनः
पदोर् उपानहौ यथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ नयामि ते मनो
अश्वम् इवाश्वाभिधान्या ।
उप ते मुञ्चे मनः
पदोर् उपानहौ यथा ॥
सर्वाष् टीकाः ...{Loading}...
०५ यथा सुरा यथा
विश्वास-प्रस्तुतिः ...{Loading}...
यथा सुरा यथा मधु
यथाक्षा अधिदेवने ।
यथा ह गव्यतो मन
एवा माम् अभि ते मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा सुरा यथा मधु
यथाक्षा अधिदेवने ।
यथा ह गव्यतो मन
एवा माम् अभि ते मनः ॥
सर्वाष् टीकाः ...{Loading}...
०६ एवा कृणुष्व मा
विश्वास-प्रस्तुतिः ...{Loading}...
एवा कृणुष्व मा प्रियाम्
अन्तः कृणुष्व मा हृदि ।
यथा मन्नापचेतया
नान्यासां कीर्तयाश् चन ॥
मूलम् ...{Loading}...
मूलम् (GR)
एवा कृणुष्व मा प्रियाम्
अन्तः कृणुष्व मा हृदि ।
यथा मन्नापचेतया
नान्यासां कीर्तयाश् चन ॥
सर्वाष् टीकाः ...{Loading}...
०७ यस्येदं वैष्टपं हविर्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्येदं वैष्टपं हविर्
भगस्य हस्तयोर् हितम् ।
तेना त्वाभि मृशामसि
सौभाग्याय स्वस्तये ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्येदं वैष्टपं हविर्
भगस्य हस्तयोर् हितम् ।
तेना त्वाभि मृशामसि
सौभाग्याय स्वस्तये ॥
सर्वाष् टीकाः ...{Loading}...
०८ भग मेमां सम्
विश्वास-प्रस्तुतिः ...{Loading}...
भग मेमां सं बट् करो
मा पश्चान् मा परो दघः ।
अधा भगस्य यो भगस्
तेनेमां सं सृजा भग ॥
मूलम् ...{Loading}...
मूलम् (GR)
भग मेमां सं बट् करो
मा पश्चान् मा परो दघः ।
अधा भगस्य यो भगस्
तेनेमां सं सृजा भग ॥
सर्वाष् टीकाः ...{Loading}...
०९ भगेन त्वा सम्
विश्वास-प्रस्तुतिः ...{Loading}...
भगेन त्वा सं सृजामि
मासुरेण सुराम् इव ।
यथाससि प्रिया पत्युर्
देवृभ्यः सुभगाससि ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगेन त्वा सं सृजामि
मासुरेण सुराम् इव ।
यथाससि प्रिया पत्युर्
देवृभ्यः सुभगाससि ॥
सर्वाष् टीकाः ...{Loading}...
१० उद् इतो दैव्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
उद् इतो दैव्यं वच
इषुम् इव तुन्नः खिदे ।
तेना सपत्नान् मामकान्
सासहानि जहानि च ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् इतो दैव्यं वच
इषुम् इव तुन्नः खिदे ।
तेना सपत्नान् मामकान्
सासहानि जहानि च ॥
सर्वाष् टीकाः ...{Loading}...
११ अग्निर् मा पातु
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निर् मा पातु वसुभिः पुरस्तात्
सवितादित्यैर् अभि पातु दक्षिणात् ।
इन्द्रो मरुद्भिर् अभि पातु पश्चाद्
विश्वे देवा अभि रक्षन्तु मोत्तरात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निर् मा पातु वसुभिः पुरस्तात्
सवितादित्यैर् अभि पातु दक्षिणात् ।
इन्द्रो मरुद्भिर् अभि पातु पश्चाद्
विश्वे देवा अभि रक्षन्तु मोत्तरात् ॥
सर्वाष् टीकाः ...{Loading}...
१२ देवरक्षसान् मा पाहि
विश्वास-प्रस्तुतिः ...{Loading}...
देवरक्षसान् मा पाहि
मनुष्यरक्षसान् मा पाहि ।
विश्वस्मान् मा रक्षसस् पाहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवरक्षसान् मा पाहि
मनुष्यरक्षसान् मा पाहि ।
विश्वस्मान् मा रक्षसस् पाहि ॥
सर्वाष् टीकाः ...{Loading}...
१३ असौ यस् त्रिककुद्
विश्वास-प्रस्तुतिः ...{Loading}...
असौ यस् त्रिककुद् गिरिः
शृङ्गाभ्याम् अभितिष्ठति ।
स संपतत्रम् उद्युगं
बलासम् इव तिष्ठतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
असौ यस् त्रिककुद् गिरिः
शृङ्गाभ्याम् अभितिष्ठति ।
स संपतत्रम् उद्युगं
बलासम् इव तिष्ठतु ॥
सर्वाष् टीकाः ...{Loading}...
१४ दिव्यः सुपर्ण आ
विश्वास-प्रस्तुतिः ...{Loading}...
दिव्यः सुपर्ण आ पतद्
अयोदंष्ट्रो अयोमुखः ।
स संपतत्रम् उद्युगम्
इतो यक्ष्मं परा भवत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिव्यः सुपर्ण आ पतद्
अयोदंष्ट्रो अयोमुखः ।
स संपतत्रम् उद्युगम्
इतो यक्ष्मं परा भवत् ॥
सर्वाष् टीकाः ...{Loading}...
१५ साकं बलास प्र
विश्वास-प्रस्तुतिः ...{Loading}...
साकं बलास प्र पत
चाषेण किकिदीव्या ।
साकं वातस्य ध्राज्या
सह नश्य निहाकया ॥ (Bhatt. nasya(⟨ naśya))
मूलम् ...{Loading}...
मूलम् (GR)
साकं बलास प्र पत
चाषेण किकिदीव्या ।
साकं वातस्य ध्राज्या
सह नश्य निहाकया ॥ (Bhatt. nasya(⟨ naśya))