सर्वाष् टीकाः ...{Loading}...
०१ दीर्घजिह्वा बृहद्वाचो याभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
दीर्घजिह्वा बृहद्वाचो
याभिर् आर्द्राणि वासांसि ।
गावो घृतस्य मातरो
दिवि भेषजम् अक्रत ॥
मूलम् ...{Loading}...
मूलम् (GR)
दीर्घजिह्वा बृहद्वाचो
याभिर् आर्द्राणि वासांसि ।
गावो घृतस्य मातरो
दिवि भेषजम् अक्रत ॥
सर्वाष् टीकाः ...{Loading}...
०२ अर्जुनीनाम् अपचितां कृष्णा
विश्वास-प्रस्तुतिः ...{Loading}...
अर्जुनीनाम् अपचितां
कृष्णा मातेति सुस्रव । (Bhatt. (⟨ śuśrava))
मुनेर् देवस्य मूलेन
सर्वाश् छिनद्मि ता अहम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अर्जुनीनाम् अपचितां
कृष्णा मातेति सुस्रव । (Bhatt. (⟨ śuśrava))
मुनेर् देवस्य मूलेन
सर्वाश् छिनद्मि ता अहम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ छिनद्म्य् आसां प्रथमाम्
विश्वास-प्रस्तुतिः ...{Loading}...
छिनद्म्य् आसां प्रथमां
छिनद्म्य् उत मध्यमाम् ।
अथो जघन्याम् आसाम्
आ छिनद्मि स्तुकाम् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
छिनद्म्य् आसां प्रथमां
छिनद्म्य् उत मध्यमाम् ।
अथो जघन्याम् आसाम्
आ छिनद्मि स्तुकाम् इव ॥
सर्वाष् टीकाः ...{Loading}...
०४ अपेहि मनसस् पते
विश्वास-प्रस्तुतिः ...{Loading}...
अपेहि मनसस् पते
किम् अशस्तानि शंससि ।
परेहि न त्वा कामये
वृक्षान् वनानि सं चर ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपेहि मनसस् पते
किम् अशस्तानि शंससि ।
परेहि न त्वा कामये
वृक्षान् वनानि सं चर ॥
सर्वाष् टीकाः ...{Loading}...
०५ अवशसा निःशसा यत्
विश्वास-प्रस्तुतिः ...{Loading}...
अवशसा निःशसा यत् पराशसा-
-उपारिम यज् जाग्रतो यत् स्वपन्तः ।
अग्निर् विश्वान्य् अप दुष्कृतान्य्
अजुष्टान्य् आरे अस्मद् दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवशसा निःशसा यत् पराशसा-
-उपारिम यज् जाग्रतो यत् स्वपन्तः ।
अग्निर् विश्वान्य् अप दुष्कृतान्य्
अजुष्टान्य् आरे अस्मद् दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०६ यद् इन्द्र ब्रह्मणस्पत
विश्वास-प्रस्तुतिः ...{Loading}...
यद् इन्द्र ब्रह्मणस्पत
उत मृषा चरामसि ।
प्रचेता न आङ्गिरसो
द्विषतस् पातु तेभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् इन्द्र ब्रह्मणस्पत
उत मृषा चरामसि ।
प्रचेता न आङ्गिरसो
द्विषतस् पातु तेभ्यः ॥
सर्वाष् टीकाः ...{Loading}...
०७ एह माम् उत्तरम्
विश्वास-प्रस्तुतिः ...{Loading}...
एह माम् उत्तरं कृधि
सहस्व पृतनायतः ।
व्य् अस्मत् कृत्या
व्य् अस्मच् छपथाꣳ अज ॥
मूलम् ...{Loading}...
मूलम् (GR)
एह माम् उत्तरं कृधि
सहस्व पृतनायतः ।
व्य् अस्मत् कृत्या
व्य् अस्मच् छपथाꣳ अज ॥
सर्वाष् टीकाः ...{Loading}...
०८ यो नो दुधूर्षान्
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो दुधूर्षान् मनसा
यश् च पापेन नोभ्यमात् ।
आकूतिं तस्य देवा
हृदश् चित्तानि वि ष्यत ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो नो दुधूर्षान् मनसा
यश् च पापेन नोभ्यमात् ।
आकूतिं तस्य देवा
हृदश् चित्तानि वि ष्यत ॥
सर्वाष् टीकाः ...{Loading}...
०९ अश्व इव धुरि
विश्वास-प्रस्तुतिः ...{Loading}...
अश्व इव धुरि दुर्योगः
प्रतीहाय वहे दश ।
कृत्वानं ब्रह्मणस्पते
दंष्ट्राभ्याम् अभि सं जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्व इव धुरि दुर्योगः
प्रतीहाय वहे दश ।
कृत्वानं ब्रह्मणस्पते
दंष्ट्राभ्याम् अभि सं जहि ॥
सर्वाष् टीकाः ...{Loading}...
१० यो ऽन्या अधि
विश्वास-प्रस्तुतिः ...{Loading}...
यो ऽन्या अधि प्राजायथा
मूर्ध्नो ऽध्य् उद् अवर्धताः ।
त्वं सपत्नचातनो
भ्रातृव्याꣳ अव धूनुष्व ॥ (Bhatt. bhrātṛvyāṃ)
मूलम् ...{Loading}...
मूलम् (GR)
यो ऽन्या अधि प्राजायथा
मूर्ध्नो ऽध्य् उद् अवर्धताः ।
त्वं सपत्नचातनो
भ्रातृव्याꣳ अव धूनुष्व ॥ (Bhatt. bhrātṛvyāṃ)
सर्वाष् टीकाः ...{Loading}...
११ बहुर् अयं सङ्गरुष्टो
विश्वास-प्रस्तुतिः ...{Loading}...
बहुर् अयं संगरुष्टो (Bhatt. (⟨ san gariṣṭho))
न्यक्तो भूम्याम् अधि ।
तेनाहम् अस्य कर्त्स्यामि
यथा स्थामा गमिष्यति ॥
मूलम् ...{Loading}...
मूलम् (GR)
बहुर् अयं संगरुष्टो (Bhatt. (⟨ san gariṣṭho))
न्यक्तो भूम्याम् अधि ।
तेनाहम् अस्य कर्त्स्यामि
यथा स्थामा गमिष्यति ॥
सर्वाष् टीकाः ...{Loading}...
१२ स्थामागन् बृहद् अक्षत्रः
विश्वास-प्रस्तुतिः ...{Loading}...
स्थामागन् बृहद् अक्षत्रः (Bhatt. akṣatra(ḥ))
स्थामन्ताक्ष्णिणो ऽव स्यति । (Bhatt. (⟨ *-ntākṣṇo ava))
अन्तष्ठानस्य यो राजा (Bhatt. (⟨ anuṣṭhv asya))
स उत्थाम गमिष्यति ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्थामागन् बृहद् अक्षत्रः (Bhatt. akṣatra(ḥ))
स्थामन्ताक्ष्णिणो ऽव स्यति । (Bhatt. (⟨ *-ntākṣṇo ava))
अन्तष्ठानस्य यो राजा (Bhatt. (⟨ anuṣṭhv asya))
स उत्थाम गमिष्यति ॥
सर्वाष् टीकाः ...{Loading}...
१३ अगमद् राजा सदनम्
विश्वास-प्रस्तुतिः ...{Loading}...
अगमद् राजा सदनम्
अगमत् सूर्यो दिवम् ।
उदयन् वृत्रहन् प्लीहा
अङ्गराजो अवीरहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अगमद् राजा सदनम्
अगमत् सूर्यो दिवम् ।
उदयन् वृत्रहन् प्लीहा
अङ्गराजो अवीरहा ॥
सर्वाष् टीकाः ...{Loading}...
१४ यथा पन्थां कवापथो
विश्वास-प्रस्तुतिः ...{Loading}...
यथा पन्थां कवापथो
अप्येति महापथम् ।
एवा त्वं प्लीहन् नः प्लीहि (Bhatt. na(ḥ))
यतो ऽस्य् अभ्यागतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा पन्थां कवापथो
अप्येति महापथम् ।
एवा त्वं प्लीहन् नः प्लीहि (Bhatt. na(ḥ))
यतो ऽस्य् अभ्यागतः ॥
सर्वाष् टीकाः ...{Loading}...
१५ इन्द्रेण दत्तं बलम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रेण दत्तं बलम् आसुराभ्यां
शितङ्गैतच् छाल्वतायै च तुभ्यम् ।
तौ नुदेथां कण्वा अशिवा अजुष्टा
अधा गृहाणां गृहपा त्वम् एषाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रेण दत्तं बलम् आसुराभ्यां
शितङ्गैतच् छाल्वतायै च तुभ्यम् ।
तौ नुदेथां कण्वा अशिवा अजुष्टा
अधा गृहाणां गृहपा त्वम् एषाम् ॥
सर्वाष् टीकाः ...{Loading}...
१६ त्वम् अग्ने गृहपतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम् अग्ने गृहपतिर् गृहाणां
त्वं प्रजानां जनितासि दाता ।
त्वं नुदस्व कण्वा अशिवा अजुष्टा
सदान्वा निरतः सेद पापीः ॥ (Bhatt. (⟨ sedha))
मूलम् ...{Loading}...
मूलम् (GR)
त्वम् अग्ने गृहपतिर् गृहाणां
त्वं प्रजानां जनितासि दाता ।
त्वं नुदस्व कण्वा अशिवा अजुष्टा
सदान्वा निरतः सेद पापीः ॥ (Bhatt. (⟨ sedha))
सर्वाष् टीकाः ...{Loading}...
१७ चर्माभ्यः क्रूरम् आनह्य
विश्वास-प्रस्तुतिः ...{Loading}...
चर्माभ्यः क्रूरम् आनह्य
हरिणस्य भियं कृधि ।
मृगाꣳ अनु प्र पातय (Bhatt. mṛgāṃ)
मरीचीर् अनु नाशय ॥
मूलम् ...{Loading}...
मूलम् (GR)
चर्माभ्यः क्रूरम् आनह्य
हरिणस्य भियं कृधि ।
मृगाꣳ अनु प्र पातय (Bhatt. mṛgāṃ)
मरीचीर् अनु नाशय ॥
सर्वाष् टीकाः ...{Loading}...
१८ यद्य् अस्य् अप्सरावीर्
विश्वास-प्रस्तुतिः ...{Loading}...
यद्य् अस्य् अप्सरावीर्
यदि त्वा रक्षो अग्रभीत् ।
तस्मा अपप्लवं हविर्
मनसा जुहोमि ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद्य् अस्य् अप्सरावीर्
यदि त्वा रक्षो अग्रभीत् ।
तस्मा अपप्लवं हविर्
मनसा जुहोमि ते ॥