०३५

सर्वाष् टीकाः ...{Loading}...

०१ विश्वे देवा इदम्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे देवा इदं हविर्
आदित्यासः सपर्यत ।
अस्मिन् यज्ञे मा व्यथिष्य्
अमृताय हविष् कृतम् ॥

०२ अव्यसश् च व्यचसश्

विश्वास-प्रस्तुतिः ...{Loading}...

अव्यसश् च व्यचसश् च
बिलं वि ष्यामि मायया ।
ताभ्याम् उद्भृत्य वेदम्
अथ कर्माणि कृण्महे ॥

०३ यस्मात् कोशाद् उदभराम

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मात् कोशाद् उदभराम वेदं
तस्मिन्न् अन्तर् अव दध्म एनम् ।
कृतम् इष्टं ब्रह्मणो वीर्येण
तेन मा देवास् तपसावतेह ॥

०४ वैश्वानरो अजीजनद् अग्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरो अजीजनद्
अग्निर् नो नव्यां सुमतिम् ।
क्ष्मया वृधान ओजसा ॥

०५ स नः पावक

विश्वास-प्रस्तुतिः ...{Loading}...

स नः पावक दीहिह्य्
अग्ने वैश्वानर द्युमत् ।
जमदग्निभिर् आहुतः ॥

०६ दिवस् पृष्ठो अरोचथा

विश्वास-प्रस्तुतिः ...{Loading}...

दिवस् पृष्ठो अरोचथा
अग्निर् वैश्वानरो बृहन् ।
ज्योतिषा बाधते तमः ॥

०७ हरिणस्य पतत्रिणः शीर्ष्णो

विश्वास-प्रस्तुतिः ...{Loading}...

हरिणस्य पतत्रिणः
शीर्ष्णो भेषजम् आभृतम् ।
तन् नीलवद् वि लोकवत् +++(Bhatt. vi(⟨ dyu?))+++
तद् उ क्षेत्रियनाशनम् ॥

०८ अन्वमंस्तानुमतिर् अन्वंअंस्त वृषायवः

विश्वास-प्रस्तुतिः ...{Loading}...

अन्वमंस्तानुमतिर्
अन्वंअंस्त वृषायवः ।
कीनाशा अन्वमंसत-
-अनु गावो अमंसत ॥

०९ नमो अस्त्व् आयामिभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

नमो अस्त्व् आयामिभ्यो
नीविभ्यो हृदयाय च ।
नमः क्षेत्रस्य पतये
नमः क्षेत्रस्य पत्न्यै ॥

१० उत् ते हार्दिम्

विश्वास-प्रस्तुतिः ...{Loading}...

उत् ते हार्दिं शोचयामि
हस्तेनाभिमरीमृशत् ।
केशिन् वृषण्यया तव +++(Bhatt. (⟨ vṛṣṇyā?))+++
मुष्कौ मूर्धा न शुष्यताम् ॥

११ अग्निष् ट्वा तपतु

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निष् ट्वा तपतु
सूर्यस् त्वा तपतु
वातस् त्वा युङ्क्तां
मरुतश् च युञ्जताम् ।
मृगान् मरीचीर् अप्य् एतु ते मनः ॥

१२ उत् त्वा हन्मि

विश्वास-प्रस्तुतिः ...{Loading}...

उत् त्वा हन्मि निपदनाद्
उत् त्वा हन्मि गृहेभ्यः ।
मा स्पृक्षथा निषदनाय साधव
उत् तिष्ठ प्रेहि सभाम् ॥

१३ उत् तुद शिमिदावत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

उत् तुद शिमिदावत्य्
अथो उल्कावतीं कुरु ।
पत्ये च श्वशुराय च ॥

१४ विबर्हं हरांसयो रसम्

विश्वास-प्रस्तुतिः ...{Loading}...

विबर्हं हरांसयो रसं
ज्ञानम् अति भ्रुवोः ।
साकम् ऋषे वि नाशय ॥

१५ साकं वातस्य ध्राज्या

विश्वास-प्रस्तुतिः ...{Loading}...

साकं वातस्य ध्राज्या
साकं सूर्यस्य रश्मिभिः ।
साकं सूर्येणोद्यता
सपत्नीं नाशयामसि ॥