०३४

सर्वाष् टीकाः ...{Loading}...

०१ त्वचापिधाने सुभगे दत्परिस्तरणे

विश्वास-प्रस्तुतिः ...{Loading}...

त्वचापिधाने सुभगे
दत्परिस्तरणे कवे ।
एकाम् इव व्रजे गां
परि त्वा वर्चसासिचम् ॥

०२ अग्रेणीर् इव हंसानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्रेणीर् इव हंसानां
प्रपश्यन्ती पुरस् पथम् ।
जिह्वे मा विव्यथो मा
यथापूर्वं त्वं वद ॥

०३ वर्चस्वद् अहम् उद्यासम्

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चस्वद् अहम् उद्यासं
ब्रह्मराजन्याभ्यां
शुद्राय चार्याय च ।
यस्मै च कामयामहे
सर्वस्मै च विपश्यते ॥

०४ अर्वाञ्चौ पादौ प्र

विश्वास-प्रस्तुतिः ...{Loading}...

अर्वाञ्चौ पादौ प्र हर-
-अर्वाचीनं मनस् तव ।
अर्वाचीनस्य ते अतः
पराङ् मन्युं नि वर्तताम् ॥ (Bhatt. manyuṃ(⟨ nyuḥ)

०५ छागलादे भगवो ऽर्वाग्

विश्वास-प्रस्तुतिः ...{Loading}...

छागलादे भगवो
ऽर्वाग् ज्योते परस्तमः ।
आ त्वा खलज्ञकाद् अस्मात्
पुनर् आ वर्तयामसि ॥

०६ यथा व्रीहीन् व्रीहिखले

विश्वास-प्रस्तुतिः ...{Loading}...

यथा व्रीहीन् व्रीहिखले
समाकुर्वन्ति तूलिभिः ।
एवा ते विष्ठितं मनः
सम् आ करोमि माम् अभि ॥

०७ त्वम् उत्तमं सुरभिषाम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् उत्तमं सुरभिषां
माध्यमं वहतोर् असि ।
त्वया वधूर् वि जङ्गहे
तं त्वा वर्चस आ ददे ॥

०८ मूर्ध्नस् ते मूर्धन्येभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

मूर्ध्नस् ते मूर्धन्येभ्यो
ऽग्रुवः पतिवित्त्याः । (Bhatt. pativityāḥ (⟨ ttyāḥ))
औक्षं शीर्षत आ ददे ॥

०९ यश् च स्वाद्मा

विश्वास-प्रस्तुतिः ...{Loading}...

यश् च स्वाद्मा ते अङ्गेषु
यः प्रेमा हृदये च ते ।
तं त्वद् आ वेशयामहे
मयि भ्राजाति दीद्यत् ॥

१० वातरंहा वाजिन् भव

विश्वास-प्रस्तुतिः ...{Loading}...

वातरंहा वाजिन् भव युज्यमान
इन्द्रस्य याहि प्रसवे मनोजवाः ।
युञ्जन्तु त्वा मरुतो दैव्यास
आ ते त्वष्टा पत्सु जवं दधातु ॥

११ जवस् ते अर्वन्

विश्वास-प्रस्तुतिः ...{Loading}...

जवस् ते अर्वन् निहितो गुहा
यः श्येने चरति यश् च वाते ।
तेन त्वं वाजिन् बलवान् बलेन-
-आजिञ् जय समने पारयिष्णुः ॥

१२ आसीयाने ऽधि मनस

विश्वास-प्रस्तुतिः ...{Loading}...

आसीयाने ऽधि मनस (Bhatt. sī(⟨ śī))
आसीयाने ऽधि चक्षुषः । (Bhatt. sī(⟨ śī))
आसीयानस्य वाताद् भूत्वा- (Bhatt. sī(⟨ śī))
-आजिञ् जय समने पारयिष्णुः ॥

१३ तनूस् ते वाजिन्

विश्वास-प्रस्तुतिः ...{Loading}...

तनूस् ते वाजिन् तन्वं वहन्ती
वामम् अस्मभ्यं धातु शर्म तुभ्यम् ।
अह्रुतो महो धरुणाय देवा
दिव्यम् इव ज्योतिः स्वर् आनमीयाः ॥

१४ इन्द्रो मा वक्षद्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो मा वक्षद् अक्षतं
वृत्रहा यो वृतञ्जयः ।
स मे रथं स सारथिं
सो अश्वान् साधु मे नयात् ॥

१५ इन्द्रो मा तेन

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो मा तेन नयतु
पन्था यो अभयः सुगः ।
दक्षिणा पारयाति मा
मा रिषं समरे युधाम् ॥

१६ हृत्सुके परि णो

विश्वास-प्रस्तुतिः ...{Loading}...

हृत्सुके परि णो नम (Bhatt. (⟨ ṛcchuke?))
पारिगं तन्वे कृधि ।
युयुत पर्णिनं शरम् (see 2.70.5c; Bhatt. yuyut (⟨ yūyuvat))
उतापर्णं रिशाद् इति ॥