०३२

सर्वाष् टीकाः ...{Loading}...

०१ भगेन मा शांशपेन

विश्वास-प्रस्तुतिः ...{Loading}...

भगेन मा शांशपेन +++(Bhatt. sāṃśaphena)+++
साकम् इन्द्रेण मेदिना ।
कृणोमि भगिनं मा-
-अप द्रान्त्व् अरातयः ॥

०२ यो अन्धो यः

विश्वास-प्रस्तुतिः ...{Loading}...

यो अन्धो यः पुनःसरो
भगो वृक्षेष्व् आर्पितः ।
भगो मे अस्तु शांशपो
ऽप द्रान्त्व् अरातयः ॥

०३ यथा वृक्षां अभ्यभवः

विश्वास-प्रस्तुतिः ...{Loading}...

यथा वृक्षाँ अभ्यभवः +++(Bhatt. vṛkṣāṃ)+++
साकम् इन्द्रेण मेदिना ।
एवा मा भगिनं कृण्व्
अप द्रान्त्व् अरातयः ॥

०४ अपेतो नीललोहितं जातम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपेतो नीललोहितं
जातं हिमवतस् परि ।
कीश्मीलम् उर्वराभ्यो
दिवो जातम् अनीनशम् ॥

०५ अभ्राज् जातं वर्षाज्

विश्वास-प्रस्तुतिः ...{Loading}...

अभ्राज् जातं वर्षाज् जातम्
अथो जातं दिवस् परि ।
अथो समुद्राद् जातं
कीश्मीलं नाशयामसि ॥

०६ यो नीहाराद् यः

विश्वास-प्रस्तुतिः ...{Loading}...

यो नीहाराद् यः प्रुष्वा
यो अद्भ्यस् परि जायसे ।
गर्भो यो विद्युताम् असि
स नः कीश्मील मृडय ॥

०७ नोदेयीः सिकता इमाः

विश्वास-प्रस्तुतिः ...{Loading}...

नोदेयीः सिकता इमाः
सिन्धुतस् पर्याभृताः ।
ताभिर् यमस्य कीश्मीलं
संभृताभिर् अनीनशम् ॥

०८ त्वया पूर्वं विभीदक

विश्वास-प्रस्तुतिः ...{Loading}...

त्वया पूर्वं विभीदक
संजिता असुरा हताः ।
त्वं सपत्नचातनो
भ्रातृव्याँ अव धूनुष्व ॥ +++(Bhatt. bhrātṛvyāṃ)+++

०९ वि भिनत्तु विभीदकस्

विश्वास-प्रस्तुतिः ...{Loading}...

वि भिनत्तु विभीदकस्
तीक्ष्णशृङ्ग इव ऋषभः ।
अथो सपत्नान् आ दत्ताम्
अथो हन्तु दुरस्यतः ॥

१० व्यवधीत् सहमानः सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

व्यवधीत् सहमानः सपत्नान् +++(Bhatt. sapatnāṃ)+++
द्विषतो मे ऽधराँ अकः ।
अभ्य् अभूद् भूत्योभयाम् ॥

११ य आस्कन्दः परास्कन्द

विश्वास-प्रस्तुतिः ...{Loading}...

य आस्कन्दः परास्कन्द
आखुः ककुभ आत् क्रिमिः ।
उपजीकाँ उपक्वसान् +++(Bhatt. upakvasāṃ)+++
तान् सर्वान् जम्भयामसि ॥

१२ अपि नह्याम्य् आखोर्

विश्वास-प्रस्तुतिः ...{Loading}...

अपि नह्याम्य् आखोर्
मुञ्जेन मुखम् आस्यम् ।
अनदं यथा चराद्
अपैतुम् उर्वराभ्यः ॥

१३ अपिनह्यमुख आखुः परोक्तः

विश्वास-प्रस्तुतिः ...{Loading}...

अपिनह्यमुख आखुः
परोक्तः प्राट्पराणुतः ।
शृणाम्य् अस्य दन्तान्
निर् अक्षौ पादयामसि ॥

१४ अश्विना सारघेन मा

विश्वास-प्रस्तुतिः ...{Loading}...

अश्विना सारघेन मा
मधुनाङ्क्त शुभस्पती ।
यथा वर्चस्वतीं वाचम्
आवदानि जनाँ अनु ॥

१५ यशा अहं निमिषते

विश्वास-प्रस्तुतिः ...{Loading}...

यशा अहं निमिषते
प्रतिख्यात्रे यशा अहम् ।
अत्रैमि तद् यशा अहम्
उत तत्र यशा अहम् ॥

१६ अस्मै च सर्वस्मै

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मै च सर्वस्मै भूताय
सर्वस्मै च विपश्यते ।
सर्वस्मा इद् अहं यशाः ॥

१७ अपोत्तुदापोर्णुहि यदीदम् अस्ति

विश्वास-प्रस्तुतिः ...{Loading}...

अपोत्तुदापोर्णुहि +++(Bhatt. apottuda* (a)porṇuhi*)+++
यदीदम् अस्ति वा न वा ।
व्यन्ध्यं व्यल्गुणं चक्षुर्
अक्षीभ्यां कृधि ॥

१८ अङ्गं हिरण्ययं कृत्वा

विश्वास-प्रस्तुतिः ...{Loading}...

अङ्गं हिरण्ययं कृत्वा
लङ्गलाषम् अर्मं च ।
तद् देवा अप लुम्पत ॥

१९ चक्षुष्मन् मे मनो

विश्वास-प्रस्तुतिः ...{Loading}...

चक्षुष्मन् मे मनो अस्तु
चक्षुष्मद् धृदयं मम ।
चक्षुष्मच् चित्तम् अस्तु मे
चक्षुश् चक्षुष्मद् अस्तु मे
चक्षुर् आ धेहि मे ऽक्ष्योः ॥